SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चतुर्थो लम्भः काचिद्वराङ्गी कमितुः पुरस्तादुदुस्तवाहोः कुसुमोद्यतस्य । मूलं नखाङ्काञ्चितमंशुकेन तिरोदधे मनु करान्तरेण ॥ = ॥ अन्तर्वणं करसरोरुहकान्तिभिन्नं पत्रत्रजं सपदि पल्लवशङ्कयान्या । संस्पर्शमार्दवकलाविरहाद्विसृज्य गुच्छभ्रमेण नखकान्तिमहो चकर्ष ॥ ६ ॥ पुपि कनकगौरे चम्पकानां त्रगेपा वितरति परभागं नेति कश्चित्प्रियायाः । उरसि वकुलमालामावबन्धाम्बुजाच्याः स्तनकलशसमीपे चालयन्पाणिपद्मम् ||१०|| ७६ वक्षःस्थलेष्वत्र चकोरचक्षुषां प्रियैः प्रक्लृप्ताः सुममालिका वभुः । अन्तःप्रवेशोद्यतम्बर द्विपः सूनाततास्तोरणमालिका इव ॥ ११ ॥ एवं वनविहारपरेपुपौरेपु, तत्र सप्ततन्तुमारभमाणैर्द्विजैर्हविःस्पर्शनजनितकोपनैर्हन्यमान सव्यकरण, विधृता गृहीता सुरभिशाग्वा चम्पकशाखा यया सा 'सुरभिः शल्लकी मातृभिन्मुरागोपु योपिति । चम्पके च वमन्ते च तथा जातीफले पुनान् इति मेदिनी, असभ्यहस्तेन दक्षिणकरेणासा गृहीता काञ्ची मेखला यथा सा, अमलकनकमिव निर्मलकाञ्चनमिव गौरी पीतवर्णा, निर्गलन् स्रंसमानो नीविबन्धोऽधोवस्त्रग्रन्थिबन्धनं यस्याः सा, काचित्कापि, कामिनी कस्य वा दर्शकस्य, द्वाग् झटिति, अनन्तमपरिमितम्, नयनसुखं लोचनानन्दम्, न तेने न विस्तारयामास, अपितु सर्वस्यापीति भावः ॥ मालिनीच्छन्दः ॥७॥ काचिदिति – काचित्कापि, वराङ्गी ललना, कमितुः पत्युः पुरस्तादग्रे, कुसुमाय पुष्पायोद्यतः समुत्थापितस्तस्य, उदरतबाहोरु म्क्षिप्तभुजस्य, नखाङ्काञ्चितं नखक्षतसहितम्, मूलं कक्षम्, मङ्क्षु क्षिप्रम्, करान्तरेण हस्तान्तरेण अंशुकेन वस्त्रेण, तिरोदधे तिरोहितं चकार | स्वभावोक्तिः ||८|| अन्तर्वणमिति - अन्तर्वणं वनमध्ये 'प्रनिरन्तःशरेक्षुप्लक्षाम्र' - इति णत्वम् । अन्या काचित् कामिनी, संस्पर्शे स्पर्शने मार्दवकलाया कोमलताविज्ञानस्य विरहादभावात्, करसरोरुहस्य पाणिपद्मस्य कान्त्या दीप्त्या भिन्नं मिश्रं भिन्नवर्णमिति यावत्, पत्रव्रजं पत्रसमूहम्, सपदि शीघ्रम्, पल्लवशङ्कया किसलयभ्रान्त्या विसृज्य त्यक्त्वा गुच्छभ्रमेण स्तवकसन्देहेन नखकान्ति नखरदीप्तिम्, चकर्ष कर्पतिस्मेत्यहो आश्चर्यम् । भ्रान्तिमान् । वसन्ततिलकावृत्तम् ॥६॥ वपुपीति - कश्चिन्कोऽपि युवा, प्रियाया: प्रेयस्याः कनकमिव सुवर्णमिव गौरं पीतं तस्मिन्, 'गौरः श्वेतेऽरुणे पीते विशुद्धे चाभिधेयवत्' इति मेदिनी, वपुषि शरीरे, एषा चम्पकानां षट्पदातिथीनाम्, स्त्र माला, परभागं शोभातिशयम्, न वितरति न ददाति, पीते शरीरे चम्पकानां पीता माला न शोभत इति भाव:, इति हेतोः, अम्बुजाच्याः कमललोचनायाः उरसि वज्ञसि, स्तनकलशसमीपे कुचकुम्भाभ्यर्णे, पाणिपद्मं करकमलम्, चालयन् संचारयन् वकुलमालां केसरखजम्, आबबन्ध बध्नाति स्म । कुचस्पर्शलोभावकुलमालामानाति स्मेति भावः । मालिनीच्छन्दः । काव्यलिङ्गम् ॥१०॥ वक्षःस्थलेष्विति — अत्रारामवीध्याम्, प्रियैर्वल्लभैः, चकोरचक्षुषां जीवजीवलोचनानाम्, वक्ष:स्थलेषु वाह्वन्तरप्रदेशेषु प्रक्लृप्ता रचिताः, सुममालिकाः पुष्पस्रजः, अन्तःप्रवेशे हृदयाभ्यन्तरमवेश उद्यतस्तत्परो यः शम्बरद्विट् कामस्तस्य, सूनैः पुष्पैरातता व्याप्ताः, तोरणमालिका इव चन्दनस्रज इव, भुः शुशुभिरे । उत्प्रेक्षा । इन्द्रवंशावंशस्थयोः सम्मिश्रणादुपजातिवृत्तम् ॥११॥ एवमिति - एवमनेन प्रकारेण, पौरेषु नागरिकजनेपु, वने विहारो वनविहारस्तस्मिन्परास्तेषु कान्तारभ्रमणासक्तेषु सत्सु तत्र वने, सप्ततन्तुं मखम् 'सप्ततन्तुर्मुखः ऋतु:' इत्यमरः, आरभमाणैः प्रारब्धं कुर्वद्भिः, हविषो होमद्रव्यस्य स्पर्शनेनामर्शेन जनितं समुत्पन्नं कोपनं क्रोधो येषां तैः द्विजैर्विप्रैः 'दन्तविप्राण्डजा
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy