SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ to. नृतीयो लम्भः तदनु विविधरत्नचयविनिर्मितम , राजपुरलक्ष्मीमुखावलोकनार्थं परिकल्पितमणिमुकुरायमाणम , गगनविसृत्वरैर्मरकतपद्मरागालोकैर्घनघनाघनहितेऽपि नभःस्थले सुर चापशङ्कामादधानम , कुङ्कुमरसप्रचुरपयःसंसेकशीतलम् , तत्र तत्र विकीर्णकुसुमकुलमुरभिलम् , वीणाविजयिनो जनिष्यमाणकीर्तिलतावीजराजिमिव मुक्तामयरङ्गवल्लीमाविभ्राणम , स्वयंवरमण्डपं परिकलाय, राजानुमतिपूर्वकं तदुदन्तं कटकेपु घोपयामास ।। तदेतदाकण्य महीक्षितस्ते स्वगहिनाभिस्ततदिक्प्रदेशाः। पुरीं पताकाभिरिवाह यन्ती नग इवाब्धि शतशः समापुः ।।८।। मञ्चेपु तत्र घनवज्रमयेषु भूपाः ।। क्षीरोदवीचिनिकरेष्विव चन्द्रविम्बाः । हयाद्रितुङ्गशिखरेष्विव पञ्चवक्रा भान्ति स्म पञ्चशरवञ्चनचाररूपाः ॥२६।। ततः सकलनेत्रकुरङ्गाणां वागुरायमाणतनुलता, मूर्तेव मदनसाम्राज्यपदवी, राजधानीव शृङ्गारमहिपालस्य, वेला लावण्यसुधापयोनिधिवीचीनाम , सर्वस्वमिव नवयौवनम्य, सञ्जीवन तदन्विति-तदनु तदनन्तरम् , विविधानां नैकप्रकाराणां रत्नानां मणीनां चयेन समूहेन विनिमितं रचितम् , राजपुरलचम्या राजपुरश्रिया मुखावलोकार्थं वदनदर्शनार्थम् , परिकल्पितो रचितो यो मणिमुकुरो रत्नादर्शस्तद्वदाचरन्तम् , गगने नभसि विसृत्वराः प्रसरणीलास्तैः, मरकतपद्मरागालोकैहरितलोहितमणिप्रकाशैः, घनो निविडो यो धनाधनो मेघस्तेन रहितं शून्यं तस्मिन्नपि, नभःस्थले गगनप्रदेशे, सुरचापशङ्कां शक्रशरासनसंातिम्, आदधानं कुर्वन्तम्, कुमरसेन काश्मीरद्रवेण प्रचुरं प्रभूतं यन्पयो नीरं तस्य संसेकेन समुक्षणेन शीतलः शिशिरस्तम्, तत्र तत्र स्थलेषु, विकीर्ण प्रक्षिप्तं यत्कुसुमकुलं पुप्पसमूहस्तेन सुरभिलः सुगन्धितस्तम्, वीणाविजयिनो वल्लकाविजयिनः, जनिप्यमाणा समुत्पत्स्यमाना या कीर्तिलता यशोवल्लरी तस्या बीजराजिमिव बीजपतिमिव, मुक्तामयी चामौ रङ्गवल्ली चेति मुक्तामयरङ्गवल्ली ताम् मौक्तिकलताम्, आबिभ्राणं दधानम्, स्वयंवरमण्डपं स्वयंरास्थानम्, परिकल्प्य रचन राजानुमतिपूर्वकं राजाज्ञापुरस्सरम्, तस्य स्वयंवरस्योदन्तो वृत्तान्तस्तम्, कटकेषु शिविरेषु, घोपयामास प्रख्यापयामास । तदेतदाकर्ण्यति-शतशः शतसंख्याकाः, ते महीक्षितो राजानः, तदेतदाख्यानम्, आकर्ण्य श्रुत्वा, स्ववाहिनीभिः स्वकीयसेनाभिस्तता व्याप्ता दिक्प्रदेशाः काष्टाप्रान्ता यैस्तथाभूताः सन्तः, पताकाभिवैजयन्तीभिः, आह्वयतामिवाकारयन्तामिव, पुरी नगरीम्, नदा द्विरेफाः 'नढी नदो द्विरेफश्च' इति धनंजयः, अधिमिव सागरमिव, समापुः समायातवन्तः, नदपले स्ववाहिनाभिः स्वसहायकनीभिः, तता व्याप्ता दिक्प्रदेशा यैस्तथाभूता इति विशेषो ज्ञातव्यः ॥ २८॥ मञ्चेष्विति-तत्र स्वयंवरमण्डपे, धनवज्रमयेषु सान्द्रहीरकनिर्मितेषु, मजेषु-आसनविशेषेषु, आसीना इति शेपः, पञ्चशरस्य कामस्य वञ्चनं प्रतारणं चारु सुन्दरं रूपं सौन्दर्य येषां ते तथाभूताः, भूपा नृपाः, क्षीरोदस्य क्षीरसागरस्य वीचीनां भङ्गानां निकराः समूहास्तेप, चन्द्रबिम्बा इव विथुप्रतिमा इव, रूप्याविजयाधस्य तुङ्गानि समुन्नतानि यानि शृङ्गाणि शिखराणि तेषु, पञ्चवक्त्रा इव सिंहा इव, भान्ति स्म शुशुभिरे । मालोपमा । वसन्ततिलकावृत्तम् ।। २६ ॥ तत इति-ततस्तदनन्तरम् , गन्धर्वदत्ता गरुडवेगविद्याधरतनया, याप्ययानं शिविकावाहनम् , आरुह्याधिष्ठाय, स्वयं वरमण्डपं स्वयंवरणस्थानम् , अवततार समागतवती । अथ कथम्भूता गन्धर्वदत्तेत्याहसकलानां निखिलजनानां नेत्राण्येव नयनान्येव कुरङ्गा हरिणास्तेषाम् , वागुरायमाणा पाशायमाना तनुलता शरीरवल्ली यस्याः सा, मूर्ती सदेहा मदनसाम्राज्यपदवीव कामराज्यपदवीव, शृङ्गारमेव महीपालस्तस्याद्य १ चुञ्चुरूपा० ब० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy