SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्भः यश्र्च किल, वचित्खगाङ्गनासङ्घदुकूलभ्रमनिपेवितसितजीमूतपरिवृतः, वचन हरिन्मणिमयतटनिःसृतविभाविभाविततिग्मरुचिविम्वे गगनसरसि सरोजिनीहरितपलाशशङ्कां तटचरनभश्चराणामुपजनयन, कुत्रचिन्महीम्हपरम्परासु कादम्बिनीशङ्कया कलधौततलस्फुटनटनपटुवहिप्रतिबिम्बकपटेन स्थलसमुत्फुल्लनीलाब्ज मालासंदेहं दधानः, कचन सरसि समुद्भूतसारसराजहंसकूजितैर्लताविलसितान्तमकरन्द पानमत्तेन्दिन्दिर मनोहर झङ्कारैम्पवन तलालङ्कारसहकारप्रवालचर्वणगर्वितकलकण्ठकण्ठरवैश्च हृदिशयं निर्निद्राणं कुर्वाणः कुत्रचन मञ्जुलवञ्जुलनिकुञ्जविहरमाणखगकञ्जनयनाजनरत्यन्तश्रमहारिसमीरकिशोर मनोरमः समदृश्यत । दुर्वर्णभूधरे तत्र सर्वं स्वागतिकारणम् । 'अभाणीत्खेचरः सोऽयं स्पष्टमेव वणिक्पतेः || ११|| श्रेण्यां धरस्यास्य हि दक्षिणस्यां गान्धारदेशस्य ललामभूता । पुरी निरालम्बतयान्तरिक्षाच्च्युता सुराणां नगरीव भाति ||१२|| ५६ यच किलेति यश्च किल विजयार्धगिरिः, क्वचित् कुत्रचित् खगाङ्गनासङ्घन विद्याधरवनितासमूहेन दुकूलभ्रमेण क्षौमभ्रान्त्या निषेविता धृता ये सितजीमूता धवलवलाहकास्तैः परिवृतः परिवेष्ठितः, क्वचन कुत्रचित्, हरिन्मणिमयानि मरकतमणिप्रचुराणि यानि तानि तीराणि तेभ्यो निःसृता निर्गता या विभा दीप्तिस्तया विभावितं परिगतं तिग्मरुचिबिम्वं सूर्यमण्डलं यस्मिंस्तस्मिन् गगनसरसि नभः कासारे, तटेषु चरन्तीति तटचरास्तीरगामिनः ते च ते नभश्वराश्च विद्याधराश्च तेपाम्, सरोजिनीनां कमलिनीनाम्, हरितपलाशानां हरितडलानां शङ्का संशीतिस्ताम्, उपजनयन्नुत्पादयन् कुत्रचित् क्वचित् महीरुहाणां वृक्षाणां परम्पराः सन्ततयस्तासु, कादम्बिनीशङ्कया मेघमालाभ्रान्त्या कलधौततले सुवर्णमयपृथिवीतले स्फुटं स्पष्टं यथा स्यात्तथा नटने नृत्ये पटवो दक्षा ये बहिणी मयूरास्तेषां प्रतिविम्वस्य प्रतिफलनस्य कपटं व्याजं तेन, स्थले भूतले समु फुल्ला विकसिता या नीलाब्जमाला नीलकमलपङ्क्तिस्तस्याः संदेहं संशयम्, दधानो विभ्राणः, क्वचन कस्मिंश्चित् स्थाने, सरसि कासारे, समुद्धृतानि समुत्पन्नानि यानि सारसराजहंसानां गोनर्द मरालविशेषाणां कृजितानि ध्वनयस्तैः, लतानां वल्लरीणां विलसितान्तेषु प्रफुल्लपुष्पेषु मकरन्दस्य मथुनः पानेन मत्ताः क्षीबा य इन्दिन्दिरा भ्रमरास्तेषां मनोहरझङ्कारश्चेतोरमाव्यक्तशब्दैः, उपवनतलस्योद्यानभूमेरलङ्कारा भूषणोपमा ये सहकारा आम्रास्तेपां प्रवालानां किसलयानां चणेन भक्षितेन गर्विताः दर्पा कलकण्ठाः कोकिलास्तेषां कण्ठरवैश्व धमनीधमशब्दैश्व, हृदिशयं कामम् निर्निद्राणं जागृतम्, कुर्वाणो विदधानः, कुत्रचन क्वचित्, मज्जुला मनोहरा ये वञ्जुलनिकुन्जा वेतसलतागृहास्तेषु विहरमाणा भ्रमन्तो ये खगकञ्जनयनाजनाः विद्याधरीसमूहास्तेषां रत्यन्तश्रमस्य सुरतावसानखेदस्य हार्यपनेता यः समीर किशोरो वायुवालको मन्दपवन इति यावत् तेन मनोरम श्वेतोहरः सुन्दर इति भावः समदृश्यत व्यलोक्यत । दुर्वर्णभूधर इति तत्र पूर्वोक्ते, दुर्वर्णभूधरे रजतगिरौ, सोऽयं खेचरो विद्याधरः, वणिक्पतेर्वैश्वरस्य गन्धोत्कटस्येति यावत्, सर्वं निखिलम्, स्वागतिकारणं निजागमननिदानम्, स्पष्टमेव स्फुटमेव, अभाणीत् कथयामास ॥ ११ ॥ श्रेण्यामिति - हि निश्चयेन, अस्य धरस्य विजयार्धपर्वतस्य, दक्षिणस्यामपाच्याम्, श्रेण्यां भागे, विजयार्धपर्वतस्य द्वे श्रेणी स्तः- उत्तर- श्रेणी दक्षिण-श्रेणी च, उत्तर-श्रेण्यां पष्टि नगर्यो दक्षिण-श्रेण्याञ्च पञ्चाशन्नगः सन्तीत्यागमः, गान्धारदेशस्य गान्धार जनपदस्य, ललामभूता विभूषणीभूता, पुरी नगरी, निरालम्बतया निराधारत्वेन, अन्तरिक्षाद् गगनात् च्युता पतिता, सुराणां देवानां नगरीव पुरीव, भाति शोभते ।। १२ ।। १. अफाणीत् ० । २. - मेवं ब० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy