SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्भः न्धरस्य देहसहकारे शौर्यस्थैर्यधैर्यमञ्जरीमञ्जुले कीर्तिसौरभ्याकर्पिताः पौरजानपदनयनपुष्पन्धया निरन्तरमापेतुः। नन्दगोप इति विश्रुतमेघः संमदाम्बुनिधिमाशु निपीय । . वारिपातमकरोत्करपद्मे जीवकस्य शुभलक्षणजुष्टे ।।३२।। जीवन्धरोऽपि नन्दगोपेन पातितामच्छवारिधारां तत्सहचरी मन्दस्मितप्रकाशितकुन्दकुड्मलरुचिवीचिस्नापितामिव 'पद्मास्यो योग्यः' इति शुद्धवर्णां वचोधारां पातयन्नेवारीकुर्वन , दूरीकृतस्पृहः 'मम पद्मास्यस्य च भावभेदो न तु जीवभेदः' इति मैत्रीविभवं विभावयन् , तत्परिणयमहोत्सवारम्भं सत्रा मित्रामित्रजनानन्ददोषाभ्यां कन्दलयामास । शुभे मुहूर्ते स हि नन्दगोपसुताकराब्जग्रहणं चकार । वह्नि पुरस्कृत्य विधि विधाय पद्मास्यनामा परिणीतियोग्यः ।।३३।। गोविन्दायास्तनुतनुलतां चञ्चलाप्रत्यनीकां कान्त्या पुष्प्यत्कनककदलीकन्दलीगर्भगौरीम् । हेलोन्मीलत्कुचयुगलसन्मौक्तिकस्रक्प्रभाभिः स्पष्टाभ्यां स हि वहुमुदा चक्षुषा पश्यति स्म ॥३४॥ तान्येव मञ्जयः पुष्पस्त्रजस्ताभिर्मजलो मनोहरस्तस्मिन् , देहसहकारे शरीरातिसौरभाने 'आम्रचूतो रसालोऽसौ सहकाराऽतिसौरभः' इत्यमरः, कीर्तिसौरभ्येण यशःसौगन्ध्येनाकर्षिता वशीभूताः, पौरजानपदानां नागरिकराष्ट्रवासिजनानां नयनान्येव लोचनान्येव पुष्पंधया भ्रमराः निरन्तरं निष्प्रतिबन्धं यथा स्यात्तथा, आपेतुः पतन्तिस्म, ते तं ददृशुरिति भावः ।। नन्दगोप इति-नन्दगोप इति नाम्ना विश्रुतश्चासौ मेघश्चेति विश्रुतमेघः प्रसिद्धवारिवाहः, आशुझटिति, संमद एवाम्बुनिधिस्तं हर्पसागरम्, निपीय नितरां पीत्वा, शुभलक्षणः शङ्खचक्रादिशुभसामुद्रिकचिह्न प्टं सेवितं तस्मिन् , जीवकस्य जीवन्धरस्य करपद्मे हस्तकमले, वारिपातं जलपातं कन्यादानसंकल्पार्थं जलधारापातमिति भावः अकरोद् विदधौ। स्वागतावृत्तम्-'स्वागतेति रनभाद्गुरुयुग्मम्' इति लक्षणात् ॥ ३२॥ जीवन्धरोऽपि-जीवन्धरोऽपि सात्यन्धरिरपि, नन्दगोपेन तन्नाम्ना गोपवरेण, पातितां मोचिताम् , अच्छवारिधारां निमलजलधाराम, तस्या अच्छवारिधारायाः सहचरी सखी सदृशीति यावत् ताम्, मन्दस्मितेन मन्दहसितेन प्रकाशिताः प्रकटिता याः कुन्दकुड्मलरुचयो माध्यमुकुलमरीचयस्तासां वीचिभिः सन्ततिभिः स्नपितामिव प्रक्षालितामिव, 'पद्मास्यो योग्यः पद्मास्याभिधानः सखा योग्यस्त्वत्पुत्र्या उचितो वरः' इत्येवं प्रकाराम, शुद्धवर्णां शुद्धाक्षराम्, वचोधारां वचनपङ्क्तिम्, पातयन् प्रकटयन्नेव, ऊरीकुर्वन् स्वीकुर्वन् , दूरीकृता स्पृहा येन स त्यक्तनन्दगोपकन्याभिलापः, मम पद्मास्यस्य च भावभेदः पर्यायभेदोऽस्ति न तु जीवभेदः प्राणभेदोऽस्ति, इत्येवं मैत्रीविभवं सौहार्दसम्पत्तिम्, विभावयन् प्रकटयन् , सन् , मित्रामित्रजनयोः सुहृदसुहृदोरानन्दद्वेषाभ्यां हर्षखेदाभ्याम्, सत्रा सार्धम्, तस्य पद्मास्यस्य परिणयमहोत्सवो विवाहोल्लासस्तस्यारम्भः प्रक्रमस्तम्, कन्दलयामास वर्धयामास । शुभे मुहूर्ते-हि निश्चयेन, परिणीतिर्विवाहस्तस्या योग्योऽर्ह इति परिणीतियोग्यः, पद्मास्यनामा पद्मास्याभिधानः, स जीवन्धरसुहृद्, शुभे प्रशस्ते, मुहूर्ते समये, विधिं तात्कालिकविधानम्, विधाय कृत्वा, वह्निमग्निम्, पुरस्कृत्याने विधाय, नन्दगोपसुतायाः कराब्जग्रहणं पाणिपद्मग्रहणम्, चकार विदधौ ॥ ३३ ॥ गोविन्दाया इति-हि निश्चयेन, स पद्मास्यः कान्त्या दीप्त्या, चञ्चला सौदामिनी प्रत्यनीकं विपक्षो यस्यास्ता तडित्सौदामिनी विद्युच्चञ्चला चपला अपि' इत्यमरः, विद्युत्सदृशीमिति यावत्, पुष्प्यन्ती विकसन्ती या कनककदली सुवर्णमोचा तस्याः कन्दली तस्या गर्भ इव गौरी पीतवर्णा ताम्, हेलया सहजगत्योन्मीलत् प्रकटीभवत् यत्कुचयुगं स्तनद्वन्द्वं तस्मिन् लसन्त्यः शोभमाना या मौक्तिकस्रजो मुक्ता
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy