________________
श्री सूयगडाङ्ग सूत्र
स्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याद्भव्यानां तत्सामञ्चभावाद्योग्य दलिक प्रतिभावत्तदनुपपत्तिरिति । तथा नापि शाश्व - ता एव भवस्थकेवलिन | शास्त्रीणां सिद्धिगमनसद्भावात्प्रवाहापेक्षया च शाश्वतत्व कथञ्चिच्छाश्वता कथचिदशाश्वता इति । तथा सर्वेऽपि प्रणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीदृशा - विसदृशास्तथोपयोगासंख्येयप्रदेशत्वा मूर्तस्वादिभिर्धर्मे कथञ्चित्सदृशा इति, तथोल्लसितसद्वीर्यतया केचिद्भिनग्रन्थयोऽपरे च तथाविधपरिणामाभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येव ं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्ध', तदेचमेतयोरेव द्वयो स्थानयोरुक्तनीत्याऽनाचार विजानीयादिति स्थितम् । अपि च- श्रागमे अनन्तानन्तास्वत्युत्सर्पिण्यव सर्पिणीषु भव्यानामनन्तभाग एव सिद्धयतीत्ययमर्थ प्रतिपाद्यते, यदा चैवम्भूतं तदानन्त्य तत्कथं तेषां क्षय । युक्तिरप्यत्र - सम्बन्धिशब्दावेतौ, मुक्तिः सँसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे ससारस्याप्यभाव स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति ॥ ५ ॥ अधुना चारित्राचारमगीकृत्याह - मूलम् - जे केइ खुद्दगा पाणा, अदुवा सन्ति महालया । सरिस तेहिं वरंति, सरिसन्ती यथा वदे || एएहिं दोहिं ठाणेहिं, ववंहारो न विज्जई । एएहिं दोहिं ठाणेहिं ऋणायार तु जाणए ।। - श्री सूयगडाग सूत्र ॥२२५॥६७॥ टीका- ये केचन क्षुद्रका सत्त्वा - प्राणिन एकेन्द्रियद्वीन्द्रियादयो