________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
जैनागमन्यायसंग्रह: हु खत्रोवसमियो किन्तु स एव उ ह ओवसमलाभो। तंमि सइ होइऽवसं भए. णइ भवपञ्चओ तो सो ॥१॥ छाया-सोऽपिक्षायोपशामिकः किन्तु स एव तु क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययिकस्ततः ।।१।। यतः-उदयक्खयखओवसमोवसमावि अजं च कम्मुणो भणिया। दव्यं खेत्तं कालं भवं च भावं च संपप्प ॥१॥ छाया-उदयक्षयक्षयोपशमोपशमा यश्चकर्मणो भणिताः । द्रव्यं क्षेत्रकालं भवञ्च भावञ्चसंप्राप्य ॥१॥ 'त्ति, तथा तदावरणस्य क्षयोपशमेभवं क्षायोपशमिकमिति । 'मणपञ्जवे? त्यादि, ऋज्वी-सामान्यग्राहिणीमतिः ऋजुमतिः-घटोऽनेन चिन्तत इत्यध्यवसायनिबन्धनंमनोद्रव्यपरिरच्छित्तिरित्यर्थः, विपुला-विशेष ग्राहिणीमतिः विपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलि पुत्रिकोऽद्यतनोमहान् इत्याद्यध्यवासायहेतुभूता मनोद्रव्यविज्ञप्तिरिति ।
आह च–'रिजु सामण्णं तम्मत्त गाहिणी रिजुमती मणोनाणं । पायविसेस विमुहं घडमेत्तं चिन्तितं मुणइ ॥ १ ॥' छाया--ऋतु: सामान्यं तन्मात्र प्राहिणी ऋजुमतिर्मनोज्ञानम् । प्रायोविशेषविमुखं घटमात्रं चिन्तितं जा नाति ॥ १॥ "विउलंवत्थु विसेसणमाणं तगगाहिणो मती विउला । चितियमणुसरइघडं पसंगओ पन्जयसएहिं ।।" छाया--विपुलं वस्तु विशेषणमानं तद् ग्राहिणीमतिः विपुला । चिन्तितमनुस्मरति घटं प्रसङ्गतः पर्यायशतैः ।। २॥ 'आभिणियोहिए' इत्यादि, श्रुतं कर्मतापन्नं निनितं-आश्रितं श्रुतं वा निश्रितमनेनेतिश्रुतनिश्रितं, यत् पूर्व मेवश्रुतकृतोपकारस्येदानी पुनस्तद नपेक्षमेवानुप्रवर्तते-तदवग्रहादि लक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्वं तद परिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्य
For Private And Personal Use Only