SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयद्वारम् ४१ स्त्रीपुरुषनपुस्क शब्दवदित्यसौप्रतिपद्यते, तथा गुरुगुरवः इत्यत्राप्याभिधेयभेद एव, भिन्नवचनवृत्तित्वात्पुरुषः पुरुषा इत्यादिवदिति, नामस्थापनाद्रव्यरूपाश्च नेन्द्राः, तत् कार्याकरणात खपुष्पवदिति प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिंगवचनानां तु बहनामपि शब्दानामेकमभिधेयमसौ मन्यते, यन्द्रः शक्रः पुरन्दर इत्यादि इति गाथार्थः ॥ “वत्थूओ' इत्यादि, वन्तुनः- इंद्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्य, भवति अवस्तु अभवतीत्यर्थः, के त्याह नये-समभिरूढे, समभिरूढ़नयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् वाच्यविशेषान समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्रभाव!ः- इंद्रशक्रपुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् , प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, भिन्नप्रवृत्तिनिमित्तत्वात् सुरमनुजादि शब्दवत, तथाहि-इन्दतीति इन्द्रः शक्नोतीति शक्रः पुरं दारयतीति पुरंदरः, इह परमेश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसंगो, घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यदा इन्द्रशब्दः शक्रशब्देन सहकार्थ उच्यते तदा वस्तुनः परमैश्वय्येस्य शकनलक्षणे वस्त्वन्तरे संक्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, नहि य एव परमैश्वर्य्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपयोयसाकर्यापत्तिताऽतिप्रसंगादित्यलं विस्तरेण, उक्तः समभिरूद: । 'वंजण अत्थे। त्यादि, यत् क्रियाविशिष्टं शब्देनोकयते तामेवक्रियां कुर्वद् वस्त्वेवंभूतमुच्यते, एवं यः शब्देनोच्यते चेष्टाक्रियादिकः-- प्रकारस्तमेवंभूतं प्राप्तमितिकृत्वा, ततश्चैवंभूतवस्तुप्रति For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy