SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ जैनागमन्यायसंग्रहः निपुणो व्यवहारो भणति,-यद् भणसि पश्चानां प्रदेश इति. तन्न भवति युज्येते, कस्मात् ? यदि यथा पश्चानां गोष्ठिकानां किञ्चद् द्रव्यं सामान्य-एकं भवति, तद्यथा-हिरण्यवेत्यादि, एवं यदि प्रदेशोऽपि स्यात्तत्तो युज्यते वक्तु-पञ्चानां प्रदेश इति इदमुक्तं भवति-यथा केपाश्चित् पंचानां पुरुषणां साधारण किञ्चद्धिरण्यादि भवति, एवं पश्चानामपि धर्मास्तिकायादिद्रव्याणां योकः कश्चित्साधारण: प्रदेश: स्यात्तदेयं वाचो युक्ति घटते, नचैतदस्ति प्रतिद्रव्यं प्रदेश भेदात, तस्मान्मा भण-पंचानां प्रदेशः, अपि तु भण- पंचविध:-पंचप्रकारः प्रदेशः, द्र. व्यलक्षणस्याश्रयस्य पंचविधत्वादिति भावः, तदेवाह-धर्मप्रदेश इत्यादि, एवं वदन्तं व्यवहारमृजुसूत्रो भरणति-यद् भणसि पंचविधः प्रदेशः तन्न भवति, कस्मात् ? यस्माद्यदि ते पंचविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: पंचविधः प्राप्तः, शब्दादत्र वस्तु व्यवस्था, शब्दाच्चैवमेव प्रतीतिभवति एवं च सति पंचविंशतिविधः प्रदेशः- प्राप्नोति, तस्मान्मा भण पंचविधः प्रदेशः, किन्त्वेवं भण-भाज्यः प्रदेशः, म्याद्धमस्येत्यादि, इदमुक्तं भवति-भाज्यो- विकल्पनीयो विभजनीयः प्रदेशः, कियभिविभागैः १ स्याद्धर्मप्रदेश इत्यादि पंचभिः, ततश्च पंचभेद एव प्रदेशः सिध्यति, स च यथा स्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुत नयमतेनामत्वादिति । एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद्भांस-भाज्य प्रदेशः, तन्न भवति, कुतो?, यतो यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिकाय प्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेशः स्याद्, अधर्मातिकायप्रदेशोऽपि कदाचिद् र्धास्तिकायादि प्रदेशः स्याद्, इत्थमपिभजनाया अनिवारित्वात्, For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy