SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानविषयः १३६ परिणामिनः ॥ १ ॥,, इत्यादि, वर्णादीनां च पौद्गलिकत्वं सुप्रसिद्धमेवेति अनेन द्रव्यलक्षणमुक्त, पर्यायलक्षणमाहमूल:- एगत्तं च पुहुत्तं च संखा संठाणमेव य । सूत्रचतुष्टयार्थः ॥ संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥ १३ ॥ टीका: -- एकस्य भावः एकत्वं - भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः सामान्य परिणतिरूपं च शब्द उत्तरापेक्षया समुच्चये, पृथग्भावः पृथक्त्वम् - अयमस्मात्पृथगिति प्रत्ययोपनिबन्धनं, ' च सर्वत्र प्राग्वत्, संख्यानंसंख्या - यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संतिष्ठतेऽनेनाकारविशेषेण वस्त्विति संस्थानं - परिमण्डलोऽयमित्यादिबुद्धिनिबन्धनम्, एवेति पूरणे, 'संयोगाः' अयमंगुल्योः संयोग इत्यादि व्यपदेशहेतवः, ' विभागाश्च यमितो विभक्त इति बुद्धिहेतवः, उभयत्र सम्बन्धिभेदेन भेदमाश्रित्य बहुवचननिर्देशः, शब्दोऽनुक्तनव पुराणत्वादिपर्यायोपलक्षकः, पर्यवाणाम् ' उक्तनिरुक्तानां, 'तुः' पूरणे 'लक्षणम्' असाधारणरूपम्. अयमभिप्रायः - यः कश्चिदस्खलित प्रत्ययः स सर्वः सनिबन्धनो, यथा घटादिप्रत्ययः, अस्खलित प्रत्ययाश्वामी एकोऽयमित्यादिप्रत्ययाः ततोऽवश्यममीषां निबन्धनेन भवितव्यं तच्च न द्रव्यमेव, तस्य सदाऽवस्थितत्वेन प्रतिनियत कालैकत्वादिप्रत्ययानुत्पत्तिप्रसंगात् ततश्च यदमीषां कालनियमेनोत्पत्ति 'निबन्धनं न तत्पर्यवेभ्यस्तत्तत्परिणतिविशेषरूपेभ्योऽन्यत्, गुणानां तु लक्षणानभिधानं रूपादिरूपाणां तेषामतिप्रतीत्वात्प्रायो विप्रतिपत्त्यविषयत्वाच्चेति सूत्रार्थः ॥ , उत्तराध्ययन सू० मोक्षमार्ग गत्यध्ययन - २८ For Private And Personal Use Only "
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy