SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (६७) षड्द्रयमध्ये खलु द्रव्यपञ्चकं निर्जीवमेवं समवायपञ्चकम् । एतैरजीवैरपि जीवसङ्कुल जगत्समस्तं धियते निरन्तरम् ॥ ९ ॥ जीवास्त्विमे स्वोर्जितकर्म पुद्गलैः सन्तः श्रिता दुःखसुखाश्रयीकृताः । द्रव्याणि षट् यत्समवायपञ्चकमेतन्मयं ह्येव जगन्न चापरम् ॥ १० ॥ ततः सचेतः प्रणिचेत चेतसा जीवेभ्य एते सबला अजीवाः । ३७ धर्माधर्माकाशपुद्गलजीवास्तिकायकाललक्षणानि षड् द्रव्याणि, तन्मध्ये जीवास्तिकायमेकं विमुच्य शेषाणि पश्च द्रव्याणि अजीवानि, एवं कालस्वभावनियतिपुराकृतपुरुषकारलक्षणपश्चसमवायो ऽप्यजीव एभिर्दशभिरजीवैरशेषं जीवसंभृतं जगत् सन्ध्रियते । यथा धर्मास्तिकायेन चलति । अधर्मास्तिकायेन तिष्ठति । आकाशास्ति. कायेनावकाशं लभते । पुद्गलास्तिकायेनाहारविहारादिकरोति । कर्माण्यत्रान्तर्भवन्ति । यैरजीवरूपैरयं जीवः सुखदुःखभाग् भवति तानि कर्माणि जीवः कालादिपञ्चसमवायसामर्थ्यात् गृहात्ति धारयति भुङ्क्ते शमयतीति । एवं नवापि वस्तुनि अजीवानि जीवानां जीवनो-- पायाः । तत्र कालस्तूभयत्रवर्तमान आयुरादिसर्वप्रमाणवद्वस्तुप्रमाणकर इति।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy