________________
तृतीयः प्रकाशः
१. जीवा द्विधा॥
२. मंसारिणः सिद्धाश्च ।।
संसरन्नि भवान्तरमिति संसारिणः, तदपरे सिद्धाः ।
३. संसारिणस्त्रसस्थावराः ।।
हिताहितप्रवृत्तिनिवृत्त्यर्थ गमनशीलास्त्रसाः, तदितरे स्थावराः।
४. पृथिवी-अप-तेजो-वायु-वनस्पतिकायिका एकेन्द्रियाः स्थावराः ।
पृथिवी कायो येषां ते पृथ्वीकायिका इत्यादि । एने च एकस्य स्पर्शनेन्द्रियस्य सद्भावादेकेन्द्रिया: स्थावरसंज्ञां लभन्ने ।
पञ्चसु अपि स्थावरेषु मूक्ष्माः सर्वलोके, बादराश्च लोककदेशे।