SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४१८ जैनसाहित्य और इतिहास अजनि तस्य मुनेर्वरदीक्षितो विगतमानमदो दुरितान्तकः । कनकसेनमुनिर्मुनिपुंगवो वरचरित्रमहाव्रतपालकः ।। २ गतमदोऽजनि तस्य महामुनेः प्रथितवान् जिनसेनमुनीश्वरः । सकलशिष्यवरो हतमन्मथो भवमहोदधितारतरंडकः ॥ ३ तस्यानुजश्चारुचरित्रवृत्तिः प्रख्यातकीर्तिर्भुवि पुण्यमूर्तिः । नरेन्द्रसेनो जितवादिसेनो विज्ञाततत्त्वो जितकामसूत्रः ।। ४ तच्छिष्यो विबुधाग्रणीर्गुणनिधिः श्रीमल्लिषेणाह्वयः संजातः सकलागमेषु निपुणो वाग्देवतालंकृतः । तेनैषा कविचक्रिणा विरचिता श्रीपंचमीसत्कथा भव्यानां दुरितौघनाशनकरी संसारविच्छेदिनी ॥ ५ स्पष्टं श्रीकविचक्रवर्तिगणिना भव्याब्जधांशुना ग्रन्थी पंचशती मया विरचिता विद्वजनानां प्रिया । तां भक्त्या विलखंति चारुवचनैावर्णयन्त्यादरात् ये शृण्वंति मुदा सदा सहृदयास्ते यान्ति मुक्तिश्रियम् ॥ ६ -नागकुमार-काव्य सकलनृपमुकुटघट्टितचरणयुगः श्रीमदजितसेनगणी । जयतु दुरितापहारी भव्यौषभवार्णवोत्तारी ॥ ५५ जिनसमयागमवेदी गुरुतरसंसारकाननोच्छेदी । कर्मेन्धनदहनपटुस्तच्छिप्यः कनकसेनगणिः ॥ ५६ चारित्रभूषितांगो निःसंगो मथितदुर्जयानंगः । तच्छिष्यो जिनसेनो बभूव भव्याब्जधर्माशुः ।। ५७ तदीयशिष्योऽजनि मल्लिषेणः सरस्वतीदत्तवरप्रसादः । तेनोदितो भैरवदेवतायाः कल्पः समासेन चतुःशतेन ।। ५८ यावद्वार्धिमहीधरतारकगणगगनचन्द्रदिनपतयः । तिष्ठतु भुवि तावदयं भैरवपद्मावतीकल्पः ।। ५९ --भैरवपद्मावतीकल्प
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy