SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६५ प्रतिसूत्रं श्रीमदणुभाभ्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः । २ यथा द्रव्यगुणकर्मस्वर्थवादः । तथात्मनिरूपणं वेदान्तगतं २६९ यज्ञाङ्पुरुसंबन्ध्यर्थवाद्गतमिति जैमिनिमतम् । ३ वसिष्ठादिब्रह्मज्ञानिनामग्निहोत्राद्याचारदर्शनाज्ज्ञानेन कर्मणो २६९ बाधो न । ४ जनको ह वैदेह इत्यादिश्रुतेर्ब्रह्मविदा जनकेन यज्ञकरणा- २७० ज्ज्ञानेन न कर्मणो बाधः । ५ तं विद्याकर्मणी इति श्रुतौ ज्ञानकर्मणोः साहित्येन फलारम्भ - २७० कत्वदर्शनान्न ज्ञानेन कर्मणो बाधः । ६ ब्रह्मष्ठो ब्रह्मेत्यनेन ज्ञानवतो ब्रह्मत्वेन वरणकथनाज्ज्ञानं २७० कर्माधिकार संपादकमेव । ७ यावज्जीवमग्निहोत्रनियमात्कर्माकरणे प्रायश्चित्तविधानाच २७० कर्म श्रुत्यभिमतम् । ८ स वा अयमिति श्रुत्या भगवत: सर्वाधिक्येन कथनात् २७१ जैमिनिमतं न योग्यम् । एवं बादरायणेन कर्मादिभ्य आधिक्येनैव भगवतो भक्तिमार्गस्य तत्संबन्धिसर्वात्मभावस्य चानुभवस्य गृहीतत्वात् । ९ यथा जनकादीनां कर्मकरणं तथा शुकादीनां कर्मत्यागो २७२ दृश्यते। एवं चाचारस्य तुल्यत्वान्न ज्ञानं कर्माङ्गम् । १० सर्वैर्ब्रह्मविद्भिः कर्म क्रियते इति तु श्रुतौ न निरूप्यते । तेन २७३ त्यागपक्षः श्रेयान् । ११ अधिकारवशाज्जनकेन कर्म न त्यज्यते शुकेन तु त्यज्यते । २७३ अयं च त्यागात्यागो भगवदनुग्रहकृत एव । यथाधिकारता - रतम्येन तैत्तिरीयश्रुतौ शतगुणिता आनन्दा उक्ताः । २७३ १२ वेदाध्ययनमात्रवतः कर्मण्यधिकारो नतु ब्रह्मविदोपि । १३ न कर्मणेति श्रुतौ मोक्षप्राप्तौ कर्मत्यागनियमदर्शनान्न कर्म - २७४ नियमो बाधकः ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy