SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाव्यतात्पर्यम् । सूत्राङ्काः । पृशङ्काः। १४ आदरादलोप इत्यधिकरणम् । ४० वर्णाश्रमधर्माणां भगवद्धर्माणां च युगपत्मसक्तौ भगवद्धर्मे- २१७ प्वादरश्रवणात्त एवानुष्ठेया नतु वर्णाश्रमकर्मभिस्तल्लोपः संपादनीयः। ४१ भगवद्धर्मवर्णाश्रमधर्माणां युगपत्करणे भगवद्धर्माणां बलवत्त्वे- २४८ नालोपवचनाद्भगवद्धर्माः कर्माङ्गं न किंतु मुख्याः ॥ १५ तन्निर्धारणाधिकरणम् । ४२ कर्म कर्तव्यं न वेति भगवदिच्छाया अज्ञातत्वेनाधुनातनैः २४८ कर्म निष्कामतया कर्तव्यमेव । भगवदिच्छां ये जानन्त्यम्बरीषयुधिष्ठिरादयस्तेषां जीवकृतकर्मफलाद्भिन्नमीश्वरकृतकर्मफलं लोकसंग्रहादिकं नतु स्वर्गरूपम् । निष्कामकर्मकारिणां तु कर्मजप्रतिबन्धाभावः फलम् ॥ १६ प्रदानवदित्यधिकरणम् । ४३ भगवतोद्धवं प्रति यः सर्वात्मभावत्वेनोपदेशः कृतः स वरदान- २४९ वदेव । नायमात्मेति श्रुतेः ॥ १७ लिङ्गभूयस्त्वाधिकरणम् । ४४ सर्वात्मभावस्य सर्वाधिकत्वात्तदेव कालकर्मादिभ्यो बलीयः। २५१ तस्य ज्ञानेनापि प्रतिबन्धो नेति-अन्तरा भूतग्रामवदिति सूत्रेणोक्तम् । ४५ सूत्रद्वयेन पूर्वपक्षः । छान्दोग्ये वरणभूयस्त्वं नोच्यते किंतु २५२ श्वेतकेतूपाख्यानज्ञानस्यैव प्रकारभेदो निरूप्यते । आत्मपकरणत्वादुभयोः प्रपाठकयोः । अत्र दृष्टान्तः । क्रियामानसवदिति । यथा बाह्या पूजा क्रियेत्युच्यते । आन्तरी मानसमित्युच्यते। . [अणुभाष्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy