SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ४ | ३ |११ ॥ कल्पसमामौ कार्यस्य ब्रह्मलोकस्य नाशे सति तदध्यक्षेण चतुर्म५ खेन ब्रह्मणा सहातो ब्रह्मणः सकाशात्परमीश्वरं प्राप्नोत्यतोपुनरावृत्तिश्रुतिर्न विरुध्यते । अत्र प्रमाणमाह । अभिधानादिति । श्रुतौ तथाभिधानादित्यर्थः । सा तु - वेदान्तविज्ञान सुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्व (मुं. ३ २ ६ ) इति । परान्तकाल इत्यत्र परशब्देन ब्रह्मणः पूर्णमायुरुच्यते || ४ | ३|११ ॥ उक्तेर्थे श्रुतिं प्रमाणत्वेनोक्त्वा स्मृतिमप्याह । १० ३३९ ३ कार्याधिकरणम् | [ अ. पा. ३ सू. १८ इति वाक्यात्ततः पुनरावर्तते । अत्र तेषामिह न पुनरावृत्तिरस्तीति पठ्यत इति परमेवात्र ब्रह्मशब्देनोच्यत इति प्राप्त उत्तरं पठति । १५ स्मृतेश्व || ४ | ३|१२ ॥ ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे प्रविशन्ति परं पदम् इति स्मृत्यापि स एवार्थः प्रतिपाद्यते अत्र सिद्धान्तमाह । परस्यान्तं कृतात्मानः ४।३।१२ ॥ परं जैमिनिर्मुख्यत्वात् ॥ ४।३।१३ ॥ स एतान् ब्रह्म गमयति ( छां. ४/१५/५ ) इत्यय ब्रह्मपदेन परमेव ब्रह्मोच्यते । इति जैमिनिराचार्यो मन्यते । कुतः मुख्यत्वात् । बृहत्त्वादिधर्मविशिष्टं हि ब्रह्मपदेनोच्यते । तादृक् परमेव ब्रह्म भवतीति २० मुख्या वृत्तिर्ब्रह्मपदस्य परस्मिन्नेवान्यत्र गौणी । तथा च मुख्यगौणयोर्मध्ये मुख्यस्यैव बलिष्ठत्वात् तथा ॥ ४।३।१३ ॥ दर्शनाच्च ||४|३|१४|| स एनं देवयानं पन्थानमापद्याग्मिलोकमागच्छति स वायुलोकं स वरुणलोकं से इन्द्रलोकं स प्रजापतिलोकं समझलोकम् (क. ११३) इति २५ कौषीतकिरमचादिलोकाभिवदविशेषेणैव प्रजापतिलोकप्राप्त्यनन्तरं
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy