SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ १० ३०९ ५ आप्रायणाधिकरणम् । [ अ. ४ पा. १ सू. १२ एवं भक्तेच्छयैव स्वरूपप्राकट्यमित्युक्त्वा लीलानाविष्करणमाविकरणं चापि तदिच्छ्यैवेत्याह । २० अचलत्वं चापेक्ष्य || ४|११९ ॥ भक्तेच्छामपेक्ष्याचलत्वं चकाराचलत्वमपीत्यर्थः ॥ ४ ॥ १।९ ॥ स्मरन्ति च ॥ ४।१।१० ॥ केचन भक्ताः स्वरूपनिरपेक्षास्तत्स्मरणजनितानन्देनैव विस्मृतापवर्गान्तफला भवन्ति । चकाराच्छ्रवणकीर्तनादयोपि समुच्चीयन्ते । तदुक्तम्अथ ह वाव तव महिमामृतसमुद्रविपुषा सकृल्लीढया स्वमनसि निष्पन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतसुखलेशाभासाः परमभागवताः ( भा. ६।९।३९ ) इति । अथवा - अहं भक्तपराधीनः (भा. ९/४/६३ ) इत्यादि - स्मृतिः पूर्वोक्ते प्रमाणत्वेनोक्ता ॥ ४।१।१० ॥ ३ ॥ ४ यत्रैकाग्रताधिकरणम् | यत्रैकाग्रता तत्राविशेषात् ॥ ४।१।११ ॥ अथेदं विचार्यते । बहिराविर्भावो येभ्यो येभ्यश्चान्तस्तेषां तेषां च १५ मिथस्तारतम्यमस्ति न वेति । तत्र निर्णयमाह । यत्र भक्तेष्वेकाग्रता भगवत्स्वरूपे प्रकट एवैकास्मिन् ग्राहकचित्तधारा न त्वन्तर्बहिर्विज्ञानं तत्रोभयोरन्तः पश्यतो बहिः पश्यतश्च भावे भगवत्स्वरूपे च विशेषाभावान्न तारतम्यमस्तीत्यर्थः ॥ ४।१।११ ॥ ४ ॥ ५ आप्रायणाधिकरणम् । आप्रायणात्तत्रापि हि दृष्टम् ||४|१|१२ ॥ उक्तेर्थ एवायं संशयः । अन्तः प्राकट्यवतो यदा बहिः संवेदने सत्यपि पूर्वानुभूतभगवत्स्वरूपानुभवस्तदा पूर्वमन्तरमन्वभूवमधुना बहिरनुभवामीत्यनुव्यवसायो भवति न वेति । तत्र वैलक्षण्याद् भवितुमर्हतीति पूर्व : पक्षः । तत्र सिद्धान्तमाह । आप्रायणादिति । श्रीभागवते -- प्रायणं हि
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy