SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अ. ३ पा. ३ सू. १९ तस्यापि । एवमाविर्भूतप्रकारेणैवाभेदादित्यपि सूत्रार्थः सूत्रकाराभिमत इति ज्ञातव्यम् । चकारेण विरुद्ध सर्वधर्माश्रयत्वं समुच्चीयते । एवं साक्षादाविर्भूते भगवद्रूपे पूर्णानन्तधर्मास्तदुपासकेनोपसंहर्तव्या इति सिद्धम् ॥ ३।३।१९ ॥ अणुभाष्यम् । २२४ अथ यत्र कार्यचिकीर्षया जीवे स्वयमाविशति तदावेशात्तद्धर्मा अपि केचित् तस्मिन्नाविर्भवन्ति । तत्रोपासकेनाखिलब्रह्मधर्मोपसंहारः कर्तव्यो न वेति शङ्कासमाधानं विकल्पेनाह सूत्राभ्याम् । तत्रादौ विधिपक्षमाह । संबन्धादेवमन्यत्रापि ॥ ३।३।२० ॥ अन्यत्रापि जीवेप्येवं ब्रह्मणीवोपासना कार्या । तत्र हेतुः । संबन्धादिति । अयोगोलके वन्हेरिव तस्मिन्नावेशलक्षणः संबन्धोस्तीति । तत्त्वेन व्यपदेशाच्च तथेत्यर्थः । अत्रैवं ज्ञेयम् । अयं तु जीवोत्राविष्टं भगवन्तमहमुपास इति जानाति चेत्तदा न सा जीवगामिन्युपासना किंतु ब्रह्मगामिन्येव । तत्राखिलधर्मोपसंहारे न किंचिद्वाधकम् । यत्र ब्रह्मत्वेनैव ज्ञात्वोपास्ते तत्रापि–तं यथा यथोपासते तथैव भवति तद्वैतान् भूत्वावति - इति श्रुतेर्गुर्वादौ जीवत्वबुद्धिनिषेधाच्च । तथा तंत्र याहगुपासकस्तदुपासनासिद्ध्यर्थं तत्फलदानार्थं च तादृग्रूपो भगवानाविशतीति च तथा ॥ ३।३।२० ॥ १५ यस्त्वन्तरङ्कं भगवद्भक्तं हृद्याविर्भूतभगवत्कं ज्ञात्वैतद्भजनेनाहं २० भगवन्तं प्राप्स्यामीति ज्ञात्वा तमेव भजते स भक्तिमार्गीय इति भक्तहृयादिभूते रूप उपसंहारो धर्माणां तेन कार्य इत्यग्रिमं पठति । न वाविशेषात् ॥ ३।३।२१ ॥ अनुपसंहारे हेतुरविशेषादिति । अस्य भक्तभक्तत्वेन तद्भजनरसा - स्वादनेन विस्मृततदाविष्टभगवत्कत्वेन तन्निरपेक्षत्वेन वा तदाविष्टभगवति 16-ख reads जीव for जीवत्व | C reads तत्तदुपासकस्य for याहउपासकः ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy