SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ४ विद्याकर्मणोरित्यधिकरणम् । [ अ. पा. १ सू. १७ यमगतेः पञ्चाग्निविद्यायाश्चैषा व्यवस्था । चित्तशुद्धिभावाभावाभ्यां वावश्यं काण्डद्वयव्यवस्था एकस्यैतद वक्तव्यम् । सकाम निष्कामभेदो वा वेदान्तिनामपि पापार्थं यमापेक्षणात्सा गतिर्वक्तव्यैव । तस्मान्न सर्वेषां सोमगतिः || ३|१|१३ ॥ स्मरन्ति च ॥ ३।१।१४ ॥ १० १७७ स्मरन्ति व्यासादयः । यमेन पृष्टस्तत्राहं देवदेव जगत्पते । पूर्वं त्वमशुभं भुङ्क्ष्व उताहो नृपते शुभम् इत्यादि । चकाराल्लोकप्रसिद्धिः || ३|१|१४ ॥ अपि सप्त || ३|१|३५ ॥ चेत्यनुवर्तते । पापोपभोगार्थं यमालयगमनमङ्गीकर्तव्यम् । यतस्तत्र नरकाः सप्त सन्ति रौरवादयः । सप्तसंख्या संख्याभेदेष्ववर कक्षा । सर्वथा निराकरणाभावाय सप्तग्रहणम् । तस्माद्यमगतिरस्ति || ३|१|१५ ॥ तत्रापि च तयापारादविरोधः || ३|१|१६ ॥ किंचिदाशङ्कय परिहरति । ननु नरकेषु चित्रगुप्तादयो भिन्ना १५ एवाधिकारिणः सन्ति । तथा सति तृतीयः पक्षः स्यादत आह । तत्र नरकादिषु येधिकारिणस्ते यमायत्तास्तत्सेवकाः । अतो यमस्यैव तत्रापि व्यापारान्न तृतीयपक्षप्राप्तिः । चकारात्सुखदुःखभागेपि । तृतीयपक्ष एव विरोधः । अथवा यमगतेर्मन्त्रलिङ्गसिद्धे पापस्य च पौराणिकत्वे चन्द्रगतिरे२० केव स्यादिति विरोधः । तेषां यमसेवकत्वे तु मन्त्रलिङपोषकत्वान्मार्गद्वयसिद्धेरविरोधः । तस्माद्यमगतिरस्तीति सिद्धम् || ३|१|१६|| ३ || ४ विद्याकर्मणोरित्यधिकरणम् । विद्याकर्मणोरिति तु प्रकृतत्वात् || ३|१|१७ ॥ साधारणत्वाभावाय पूर्वोक्तार्थसाधकमधिकरणमारभते । ननु ये के १५ चास्माल्लोकात्पयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ( कौ. ११२ ) ३ [ अणुभाष्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy