SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १६९ १ तदन्तरप्रतिपत्तावित्यधिकरणम् । [अ. 3 पा. १ सू. 3 इति प्रश्नः। असी वाव लोको गौतमामिस्तस्यादित्य एव समित् (छां. ५ ।४।१ ) इति निरूपणम् । प्रश्ने हि पुरुषत्वं वदति न देहमात्रम् । तज्जीवाधिष्ठितानामेव भवति । सिद्धवत्कारवचनाच्च निरूपणेपि चन्द्रो भवतीति । तत्रापि सोमो राजा चेतनः । न ह्यन्याधिष्ठाने ५ ह्यन्यस्य शरीरं भवेत् तथान्नरेतोगर्भाश्च । अन्यथापि विनियोगसंभवात् । जीवसाहित्येप्यपामेव मुख्यत्वम् । शरीरवत् । अयं होमस्तत्र तथा तं जनयन्ति इति न दुःखहेतुः। तस्मात् प्रश्ननिरूपणान्यथानुपपन्या परिष्वक्त एव संस्कृतैर्भूतै रहतीति सिद्धम् ॥ ३॥११ ॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ ३॥१॥२॥ १० ननु कथं भूतसंस्कारमात्रत्वमवगम्यते यावता प्रश्ननिरूपणाभ्यामाप एवावगम्यन्ते । नच तावन्मात्रसंस्कारकत्वम् । नियामकाभावात् । आस्थि चैव तेन मांसं च यजमानः संस्कुरुते इति विरोधश्चेति शङ्कां निराकरोति तुशब्दः। अपामेव ग्रहणेन तेजोबन्नानि गृहीतानि ज्ञातव्यानि। कुतः । ज्या१५त्मकत्वात् । लोकादिनिर्माणानन्तरभावित्वात् । ता आपस्त्रिवृत्कृता एव । अतस्त्रयोपि गृहीता अपां ग्रहणेन । उपलक्षणत्वेप्यपामेव ग्रहणे हेत्वन्तरमाह । भूयस्त्वात् शुद्धत्वाद्विशेषाभावान्मध्यमभावाञ्च दीक्षिततुल्यत्वेन भारूपत्वेनाग्रे वक्तव्यत्वात् । शुद्धापामेवेदं शरीरं बहुहेतुकत्वमेव भूयस्त्वम् । बहुधा परिणामाच्च । द्रव्यभूयस्करत्वं च तस्मान्नियामकानां भूयस्त्वाद२० पामेव ग्रहणम् ॥ ३३११२॥ प्राणगतेश्च ॥३॥१॥३॥ वैदिकी युक्तिमुक्त्वा लौकिकीमाह । प्राणस्य गतिः प्राणगतिः । तमुत्क्रामन्तं प्राणोनूत्क्रामति (बृ. ४।४।२) इति प्राणाप्यायनजनकत्वादपाम् । प्राणो गच्छन् स्वाप्यायकं गृहीत्वैव गच्छति । जलौका 4-C reads इत्यादि for इति। 8-Creads संपरिष्वक्तः for परिष्वक्तः । २२ [अणुभाष्य
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy