SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अ. २ पा. * सू. १४] अणुभाज्यम् । ६ ज्योतिरायधिष्ठानं वित्यधिकरणम् । ज्योतिरायधिष्ठानं तु तदामननात ॥ २।४।१४ ॥ वागादीनां देवताधिष्ठानवतां प्रवृत्तिः स्वत एव वा । जीवाधिष्ठानब्रह्मप्रेरणयोर्विद्यमानत्वादिति संशयः । विशेषकार्याभावान्न देवतापेक्षेति ५ पूर्वपक्षं निराकरोति तुशब्दः । वागादीनां ज्योतिराद्यन्यायधिष्ठानमवश्यमङ्गीकर्तव्यम् । कुतः । तदामननात् । तथाम्नायते--अग्निर्वाग्भूत्वा मुखं प्राविशत् (ऐ. २।४ ) इत्यादि। अयमर्थः। योध्यात्मिकोयं पुरुषः सोसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः स स्मृता ह्याधिभौतिकः (भा ० स्कं०२।१०।८) इत्याध्यात्मादिकानां स्वरूपं वागादयश्चानुरूपा नित्याः । तत्र यदि त्रैविध्यं न कल्प्येत तदैकस्मिन्नेव शरीर उपक्षीणं शरीरान्तरे न भवेत् । कल्प्यमाने त्वग्निर्देवतारूपोनेकरूपभवनसमर्थो वापो भूत्वा सर्वत्र प्रविष्ट इति संगच्छते । ते चाग्न्यादयश्चेतना भगवदंशास्तिरोहि१५ तानन्दाः सामर्थ्ययुक्ता इति कार्यवशादवगम्यंत । आध्यात्मिकाधिदैवि कयोरेकत्वाद् वदनादिकार्यार्थमाध्यात्मिका एव निरूपिताः । उद्गमनेएतस्माज्जायते प्राणः ( मुं. २०१।३) इत्यादिषु वागादीनां नियमेन तत्तजीवसांनिध्यं स्वतश्चानिर्गमनं मृत्युरूपश्रमेण तत्र लयः पुनरुद्गमनं समष्टिव्यष्टिभावश्च नोपपद्येत । आधिभौतिककृतश्चायं भेद इत्यग्रे १. व्यक्तीकरिष्यते । एवमेव ब्रह्मणोपि । अनेन जीवेनात्मनानुप्रविश्य (छां.६।३।२) इत्यपि नि:संदिग्धं द्रष्टव्यं यदज्ञानात्सर्वविप्लवव्यामोहः ॥ २।४।१४। ॥ ६॥ ७ माणवतेत्यधिकरणम् । प्राणवता शब्दात् ॥ २।४।१५॥ 19-A and Cread अन्यथा before नोपपोत । 21-A and Cread इत्यत्रापि for इत्यपि।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy