SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अ. २ पा. सू. १] अणुभाष्यम्। तत्र क्रमसृष्टौ संदेहः । छान्दोग्ये हि-सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् ( छां. ६।२।१ )इत्युपक्रम्य-तदैक्षत तत्तेजोसृजत ( छां. ६।२।३ ) इति तेजोबन्नसृष्टिरुक्ता न वाय्वाकाशयोः । तैत्तिरीयके पुनः ब्रह्मविदाप्नोति परम् ( तै. २।१) इत्युपक्रम्य-तस्माद्वा एत५ स्मादात्मन आकाशः संभूतः (ते. २१ ) इत्याकाशादिसृष्टिरुक्ता । उभयमपि क्रमसृष्टिवाचकमित्येकवाक्यता युक्ता । छान्दोग्ये मुख्यतया सृष्टिस्तैत्तिरीये गोणी । मुख्या त्वग्रे वक्ष्यते-सोकामयत ( तै. श६ ) इत्यादिना। तत्र संशयः । किमाकाशमुत्पद्यत न वति । किं तावत्प्राप्तं नोत्पद्यत १० इति । कुतः । अश्रुतः । श्रुतिवादिनां श्रुत्यैव निर्णयः । श्रुतौ पुनर्मुख्ये क्रमसृष्टौ न श्रूयते ॥ २१ ॥ अस्ति तु ॥ २॥१२॥ तुशब्दः पक्षं व्यावायति । तैत्तिरीयक वियदुत्पत्तिरस्ति । यद्यपि मुख्ये नास्ति तथापि विरोधाभावादन्यत्रोक्तमप्यङ्गीकर्तव्यमेकवाक्य१५ त्वाय । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानरोधाच्च ॥ २१॥२॥ गोण्यमंभवात् ॥ २॥३॥३॥ वियदुत्पत्तिौणी भविष्यति । कुतः । असंभवात् । न ह्याकाशस्यात्पत्तिः संभवति । निरवयवत्वात् । व्यापकत्वाच्च । मुख्ये चाभावात् । एकविज्ञाने सर्वविज्ञानप्रतिज्ञा तु तदधिष्ठानत्वेन जीववत्तदंशत्वेन वा २. तच्छरीरत्वेन वैकविज्ञानकोटिनिवेशात् । लोकेप्यवकाशं कुर्वित्यादौ गोणप्रयोगदर्शनात् ॥ २॥३॥२॥ शब्दाच ॥ २॥३४॥ वायुश्चान्तरिक्षं चैतदमृतम् (बृ. २३।३) इति । आकाशवत्सर्वगतश्च नित्यः इति । न ह्यमृतस्य ब्रह्मदृष्टान्तभूतस्योत्पत्तिः संभवति॥२३॥४॥ 10-C rouds मुख्यक्रम for मुख्ये क्रम । 15-A and Com. प्रतिज्ञा after विज्ञान ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy