SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमवणुभाष्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। १० जीवाशक्यभोगस्य चराचरस्य ग्रहगरूपाल्लिङ्गादस्य वाक्यस्य ५८ ब्रह्मप्रकरणपठितत्वाञ्चात्रोक्तं ब्रह्मैवेति सिध्यति ॥ ४ गुहां प्रविष्टावित्यधिकरणम् । ११ ऋतं पिबन्ताविति कठवाक्ये जीवद्वयं नोच्यते किंतु जीव- ५८ ब्रह्मणी उच्यते । अत्र जीवब्रह्मणोरेव प्रतिपाद्यत्वदर्शनात् । इतः पूर्वं येयं प्रेते विचिकित्सेति अन्यत्र धर्मादिति च वाक्यद्वयेन तयोरेव पृष्टत्वात् । १२ पूर्वप्रकरणोक्तविशेषणबलादप्यत्र जीवब्रह्मणी एवोच्यते ॥ ६० ५ अन्तर उपपत्तेरित्यधिकरणम् । १३ य एषोक्षिणीतिवाक्येक्षिपुरुषस्य ब्रह्मत्वम् । तत्रार्षदर्शन- ६० स्योपपद्यमानत्वात् न प्रतिबिम्बस्य ब्रह्मत्वेनोपासना विधी यते । १४ सर्वलोकस्य भामवामनयनरूपस्थानादिव्यपदेशात्पूर्वोक्तमेव ६१ साधितम् । १५ अमृतादिपदकथनादपि पूर्वोक्तमेव साधितम् । . १६ तदुपासकस्य ब्रह्मविद्गतिकथनादपि पूर्वोक्तमेव साधितम् ।। १७ अत्र पुनर्जीवो निर्धारितः ॥ ६ अन्तर्याम्यधिकरणम् । १८ पृथिव्यादीनां तदभिमानिनां च ये धर्मास्तेषां भगवत्प्रयुक्त- ६३ त्वबोधनादन्तर्यामी भगवानेव न जीवः । १९ ब्रह्मवादे जीवब्रह्मजडानामेव प्रसिद्धत्वादन्तर्यामी कश्चन ६४ सांख्यमंतप्रसिद्धः स्यादित्याशङ्कय सांख्यमतप्रसिद्धोन्ता म्यत्र न तद्धर्माणामनभिलापात् । २० अन्तर्यामी जीवो न संभवति यो विज्ञाने तिष्ठन् य आत्मनि ६४ 'तिष्ठन्निति वाक्याभ्यां जीवाद्भेदस्य श्रवणात् ॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy