SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अ. १ पा, भू.. अणुभाष्यम् । दृश्यते त्वाचया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ (कट.१।३।१२) इति सूक्ष्मयोपनिषदनुसारिण्या बुद्ध्या । भगवज्ज्ञाने हि तत्प्राप्तिरिति। चकारात्-ततो मां नत्त्वतो ज्ञात्वा विशते तदनन्तरम् (भ.गी. १८१५५) ५ इति स्मृतिगृहीता । तस्मात्साधनोपदेशान्न सांख्यमतमिह विवक्षितामिति ॥ १।४।१॥ सूक्ष्मं तु तदर्हत्वात ॥१४२॥ नन्वव्यक्तशादन न भगवत्कृपा वक्तुं शक्या। धर्मिप्रवाहादित्याशङ्कय परिहरति तुशब्दः । सूक्ष्मं तद ब्रह्मैव । धर्मधर्मिणोरभेदात् । अव्यक्तशब्देन १० हि यूक्ष्म च्यने । तदेव हि सर्वप्रकारेण न व्यज्यते । अर्हत्वात् । तदेवाह योग्यम् । उभयत्राप्ययं हतुः । तस्माद्धर्भधर्मिणारभेदाद् भगवानेव सूक्ष्ममिति तत्कृपेवाव्यक्तवाच्या ॥ १।४।२॥ तदधीनत्वादर्थवत ॥ १४॥३॥ ननु धर्मिले परत्वमनुपपन्नम् । अन्यथा पूर्वोक्तो दोष इत्यत १५ आह । अभेदेपि कृपायास्तदधीनत्वात्परत्वम् । तत्र दृष्टान्तः । अर्थवत् । अर्थः पुरुषार्थः फलं तद्वत् । बह्मविदाप्नोति परम् (नै. २ । १ ) इत्यत्रैकस्यैव ब्रह्मणः सच्चिद्रूपेण विषयत्वमानन्दरूपेण फलत्वमिति । तथैवाक्षरपुरुषोत्तमविभागोपि । स्वधर्मा अपि स्वाधीनाः । स्वयमपि स्वाधीन इति । तथा कृपाविष्टः साधनमानन्दरूपः फलमिति । २० अथवाव्यत्वं सच्चिद्रूपमक्षरमेवास्तु। तस्मिन्सति विज्ञानस्य विषया धीनत्वमर्थः । एतनान्येपि सर्वविप्लववादिनो निराकृता वेदितव्याः । असंबद्धाभिलापाच । अनेकरूढिशब्दानां वाच्यं ब्रह्मव नापरम् । शक्तितश्चेत्तथा ब्रूयुस्ते सन्मार्गाद् बहिष्कृताः॥२५॥ तम्मादिन्द्रियेभ्यः परवाक्ये नानुमानिकं किंचिदस्ति ॥ १।४।३॥ ::]--A. IT and T: read संप्लव for विप्लव । . 22-Jans (read शाक्तास्तांस्तथा शाकतश्चेत्तथा।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy