SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अ. पा. . सू..] अणुभाष्यम् । इति जैमिनिराचार्यो मन्यते । मनुष्याणामेव ज्ञानकर्मणोस्तरतमभाववतां तत्तद्रूपभोगानन्तरं मोक्षप्राप्तेरिति ॥ १३॥३१॥ ___ ज्योतिषि भावाच्च ॥ १।३।३२ ॥ किं च । तेषां सर्वेषामनधिकारः प्रत्यक्षत एव दृश्यते । सर्वे हि ५ नक्षत्रादिरूपेण महाभोगवन्तो जगदवभासकत्वेन ज्योतिश्चक्रे दृश्यन्ते । अमिः पुच्छस्य प्रथमं काण्डम् ( तै. आ. २।१९) इत्यादिश्रुतेश्च । न हि तादृशां प्राप्नैश्वर्यवतां सर्वोपास्यानां मोक्षदातृणां ज्ञानकर्मणोः कश्चनोपयोगोस्ति । तस्मादनधिकार एव देवानामित्येवं प्राप्ते ॥ १।३।३२ ॥ उच्यते। भावं तु बादरायणोस्ति हि ॥ १।३।३३॥ तुशब्दः पक्षं व्यावर्तयति । भावं देवानामधिकारस्य सद्भावम् । बादरायण आचार्यः । गौणसिद्धान्ताभावाय स्वनामग्रहणम् । किमार्षण ज्ञानेन । तथा सति तुल्यत्वमत आह । अस्ति हि । अस्ति वेदे प्रजा पतिरकामयत प्रजायेयेति । स एतदनिहोत्रं मिथुनमपश्यत् । तदुदिते १५ सूर्येजुहोत् ( तै. बा. २।१।२) इति । देवा वै सत्रमासत (तै. सं.२।३।३) इत्यादिभिः कर्माधिकारो निश्चितः । तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् (बृ. १।४।१० ) इत्यादि । तथेन्द्रप्रजापतिसंवादे ब्रह्मा देवानाम् ( तै. सं. ३।४।११ ) इति च । एवमेवंविधैर्वात्यैर्देवानामप्यधि कारोस्ति । यत्र च पुनर्देवानां फलभोग पत पनीयते न करणं तत्रापि २० तेषामधिकारोङ्गीकर्तव्यः । हि युक्तोयमर्थः । एते हि वसव आधिदैविक भगवदवयवभूताः । अनशनात् । अन्यथा वसुत्वादिविरोधः । यद्वसूनां प्रातः सवनम् ( तै. ब्रा. १।५।११ ) इत्यादिवत् । न हि जीवविशेषा दृष्ट्वा तृप्यन्ति । तस्मादिदं ब्रह्मप्रकरणमेव । योपि देवोपासकवत्पतीयते स भगवदंश एवाधिदैविकः । न वा पूर्वकल्पेन निर्णयः । तथा सति १५ तेषामभावादनुपास्यत्वम् । अनित्यता च वेदस्य स्यात् । तस्माद् देवा नामप्यधिकार इति शब्दबलविचार एव युक्त इति सिद्धम् ॥१॥३॥३॥८॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy