SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ८५. ६ अनुकृत्यधिकरणम् । [ अ. १ पा. ३ सू. १२. वक्ष्यति च–स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि (ब. सू. ४/४ / १६ ) इति चतुर्थे । तस्मान्न परामर्शेनान्यथाकल्पनम् ॥ १।३।२ = || अल्पश्रुतेरिति चेत्तदुक्तम् ||१|३|२१ ॥ ननु न वयं जीव उपपत्तिरस्तीति जीवप्रकरणं कल्पयामः । किंतु ५ ब्रह्मणि नायमर्थ उपपद्यते । १० १५ अल्पश्रुतेः । अल्पे हि पुण्डरीके कथं भगवदवस्थानम् । व्यापकत्वश्रवणात् । यावान्वायमाकाशः ( छां. ८|१| ३ ) इति । तस्माद्विरोधपरिहाराय जीव एवाराग्रमात्रस्तथा भवत्विति कल्प्यत इति चेत्तर्हि भवान्सम्यग् विचारकोस्मदीय एव । परं तत्समाधानं पूर्वमेवोक्तम् निचाय्यत्वादेवं व्योमवच्च (ब. सू. १२२/७ ) इत्यत्र । तत्र प्रस्मर्तव्यम् । विरोधस्तु सर्वभवनसमर्थे ब्रह्माणि नाशङ्कनीयः । तथा पुरुषशरीरं च । पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥ ( भा. ११-७२१ ) इति भगवद्वाक्यात् । तस्माद्भगवानेव दहर इति सिद्धम् ||१|३|२१|५|| ६ अनुकृत्यधिकरणम् । अनुकृतेस्तस्य च ॥ १।३।२२ ।। दहरविरुद्धं वाक्यमाशङ्कय परिहरति । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः । तमेव भान्तमनुभाति सर्वं २० तस्य भासा सर्वमिदं विभाति (मुं. २२|१० ) ( कठ. २/५/१५ ) ( श्वे. ६।१४ ) इति कठवल्लयामन्यत्र च श्रूयते । यत्तच्छब्दानामेकार्थत्वं प्रकरणाद् ब्रह्मपरत्वं चावगतम् | अर्थाच्च संदेहः । यस्मिन् द्यौरित्यत्र सूर्यादीनां ब्रह्माधारत्वमुक्तम् | अस्मिंश्व वाक्ये पूर्वार्धे तत्र तेषां भानं निषिध्यते । :- reads अन्यथावन्मानम् for अन्यथा कल्पनम् । 10- Breads तन्न for तत्र ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy