SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ८ वैश्वानराधिकरणम्। [अ. १ पा. २ स्.." भूतेषु पञ्चधा । उदरेगुष्ठमात्रः । हृदये प्रादेशो मूर्धनि च मनसीन्द्रियेषु चाणुः । चित्ते व्यापकः । एकस्याप्युपक्रमे सर्वेषु तथात्ववादो विभूतिरभेदाय । तस्माद्वैश्वानरस्य पुरुषत्वात्सच्चिदानन्दरूपेणैवं प्रादेशमात्रत्वं न विरुध्यते । अतः साकारब्रह्मवाद एव जैमिनेः ५ सिद्धान्तः ॥ १।२।२८॥ ___ अभिव्यक्तेरित्याश्मरथ्यः ॥ १।२।२९ ॥ निराकारमेव ब्रह्म मायाजवनिकाच्छन्नं तदपगमेन पुरुषाकारणाधिदैविकदेवताधिष्ठितेनाभिव्यक्तः पुरुषोन्तर्यामी । अत एव पुरुषविध इति । अभिव्यक्तेर्हेतोः साकारत्वमपि मायापगमनकृतत्वान्न स्वाभाविकत्वं १० तथापि निर्दिश्यमानं सच्चिदानन्दरूपमेवाश्मरथ्यो मन्यते ॥ १।२।२९ ॥ अनुस्मृतेर्बादरिः॥ १॥२॥३०॥ बादरिः केवलयौक्तिकश्चिन्तनवशात् प्रादुर्भूतरूपानुवादिका श्रुतिरिति । यद्याद्वया त उरुगाय विभावयान्त तत्तद्वपुः प्रणयसे सदनुग्रहाय । ( भा. ३।९।१२ ) इति वाक्यानुरोधात् । अन्यथा बहुकल्पनायां बुद्धि१५ सौकर्याभावात् तार्किकादिमतेष्वपि तथात्वाद्युक्तयनुरोधेन ब्रह्मवादोप्यन्यथा नेय इति हि मन्यते । आस्मिन्पक्षे त्वतात्त्विकत्वम् । अथवा मायास्थानेनुस्मृतिः । अभिव्यक्तिस्तु तुल्या । एवं सति बादरिमतेपि तात्त्विकमेव रूपम् ॥ १।२।३० ॥ संपत्तेरित जैमिनिस्तथाहि दर्शयति ॥ १।२।३१ ॥ ___ जैमिनिमत आकारवादे नियतसाकारं मन्यमानस्तदेकदेशी नियतमेव प्रादेशमात्रभगवद्रूपं मन्यते । तन्निराकरणाय सर्वत्र प्रादेशत्वं संपत्तिकृतमित्याह । तत्र का संपत्तिः कथामिति स्वयमेव श्रुत्या प्रदर्शयति। वाजसनेयिब्राह्मणे थुप्रभूतान् पृथिवीपर्यन्तान् वैश्वानरस्यावयवान् अध्यात्मे च 11-Sirends अनुस्मृतेरिति for अनुस्मृतेः। 17-A reads स्मृतिः for अनुस्मृतिः।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy