SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२८ अन्त्यकर्मदीपकोत्तरार्धे कृतमध्याह्रक्रियः कर्ता स्वासने प्राङ्मुख उदङ्मुखो वोपविश्य दीपं प्रज्वलय्याचम्य पवित्रपाणिप्राणानायम्य पञ्चायतनपुटं संस्थाप्य गणेशविष्ण्वादिस्मरणं कृत्वा हस्ते कुशादिकमादाय देशकालौ सङ्कीर्त्य ब्रह्मीभूतस्य गुरोर्नारायणप्रीत्यर्थमाराधनं करिष्ये इति सङ्कल्प्य षोडश पञ्च वा ब्राह्मणान् कुशमयान सम्पाद्य संस्नाप्य “एतन्ते' इति पठित्वा प्रतिष्ठाप्य प्राङ्मुखानुदङ्मुखान् वा यथावकाशमुपवेश्य स्वयं तदने प्राङ्मुख उदङ्मुखो वा पातितदक्षिणजानुरुपविश्य 'ब्रह्मीभूतस्य गुरोः समाराधने गुर्वर्थे भवान् निमन्त्रित:' परमगुर्वर्थे भवान्०, परमेष्टिगुर्वर्थे भवान् निमन्त्रितः, एवं चतुरो ब्राह्मणान् निमन्त्र्य___ शुक्ले सिद्धिं गतश्चेत् केशवार्थे भवान् नारायणार्थे० माधवार्थे. गोविन्दा० विष्एवर्थे० मधुसूदनार्थे० त्रिविक्रमार्थे ० वामनार्थे० श्रीधरार्थे० हृषीकेशार्थे० पद्मनाभार्थे० दामोदरार्थे० इति द्वादश ब्राह्मणाम् निमन्त्रयेत् । ___ पञ्चब्राह्मणपक्षे 'केशवादिदामोदरान्तद्वादशार्थे भवान् निमन्त्रित' इत्येकमेव निमन्त्रयेत् । ___कृष्णपक्षे सिद्धिं गतश्चेत् सङ्कर्षणार्थे० वासुदेवार्थे० प्रद्युम्नार्थे० अनिरुद्धार्थे० पुरुषोत्तमार्थे० अधोक्षजार्थे० नारसिंहार्थे० अच्युतार्थे० जनार्दनार्थे० उपेन्द्रार्थे० हर्यर्थे श्रीकृष्णार्थे० इति द्वादश, सङ्कर्षणाद्यर्थे एकमेव वा निमन्त्रयेत् । अथवा ब्राह्मणानां स्थाने यतीन् निमन्त्रयेत् । निमत्रितोऽस्मि इति प्रत्युक्तिः । ततो गन्धकर्पूरमिश्रजलेन तेषां पादप्रक्षालनं कृत्वा तानाचाम्य स्वयं चाचम्य पादप्रक्षालनोदकं पात्रान्तरे गृहीत्वा तत्पादान साक्षतगन्धपुष्पतुलसीदलैः पूजयित्वा- . आनन्दमानन्दकर प्रसन्नं ज्ञानस्वरूपं निजबोधरूपम् । योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि । इति नमस्कुर्यात् । एवं पादपूजनं कृत्वा पादप्रक्षालनोदकपात्रं गन्धादिभिरलङ्कृत्य देवसन्निधौ आधारे स्थापयेत्। ततः कुशासनेषु प्राङ्मुखानुदङ्मुखान्या ब्राह्मणान् उपवेश्य पुरुषसूक्तेन प्रत्यूचं 'ॐ नमो नारायणाय' इति मन्त्रसहितेनावाहनादिषोडशोपचारैः पञ्चोपचारैर्वा पदार्थानुसमयेन पूजयेत् । ततः सर्वेषां पुरतश्चतुरस्रमण्डलानि कृत्वा तेषु पत्रावली: संस्थाप्य
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy