SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ यतेदिशाहे नारायणबलिप्रयोगः। १२५ पुरुषसूक्तस्यैकैकया स्वाहान्तया ऋचा 'इदं पुरुषाय न मम' इतित्यागपूर्वकं पायसेन हुत्वा शुक्लपक्षे सिद्धिं गतश्चेत्-ॐ केशवाय स्वाहा-इदं केशवाय० । नारायणाय० । माधवाय० । गोविन्दाय० । विष्णवे० । मधुसूदनाय० । त्रिविक्रमाय० । वामनाय० । श्रीधराय० । हृषीकेशाय० पद्मनाभाय० । दामोदराय० । कृष्णपक्षे सिद्धिं गतश्चेत्-ॐ संकर्षणाय स्वाहा-इदं संकर्षणाय० । वासुदेवाय० । प्रद्युम्नाय० । अनिरुद्धाय० । पुरुषोत्तमाय० । अधोक्षजाय० । नारसिंहाय. अच्युताय० । जनार्दनाय० । उपेन्द्राय० । हरये० । श्रीकृष्णाय स्वाहा-इदं श्रीकृष्णाय० । इति पायसेन हुत्वा ॐ अग्नये स्विष्टकृते स्वाहा-इदमग्नथे स्विकृते न मम । इति पायसेन हुत्वा भूराद्या नवाहुतीराज्येन जुहुयात् । तत: संस्रवप्राशनादिप्रणीताविमोकान्तं कृत्वा पुनर्विष्णुं शालिग्रामे नाममन्त्रेण पञ्चोपचारैः संपूज्यार्घपात्रे गन्धपुष्पतुलसीदलफलानि प्रक्षिप्य ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचो. दयात् ।। विष्णवे नम: इममयं समर्पयामि इत्ययं दत्त्वा हुतशेषपायसेनानयैव गायत्र्या विष्णवे इमं बलिं समर्पयामि इति बलिं समर्प्य निमन्त्रितद्वादशब्राह्मणान् शुक्ले केशवादिक्रमेण, कृष्णे संकर्षणादिक्रमेण 'केशवरूपगुरो इदमासनं ते नमः' इत्यादिना प्रयोगेणासनाय॑गन्धपुष्पतुलसीपत्रधूपदीपफलवस्त्रयज्ञोपवीतैः संपूज्य त्रयोदशं विप्राग्न्यं पुरुषसूक्तेन प्रत्यचमन्ते 'विष्णवे नमः' इत्येवमावाहनादिदीपान्तैरुपचारैरभ्यर्च्य सर्वेषामने जलेन चतुरस्राणि मण्डलानि कृत्वा तेषु भोजनपात्राण्यासाद्य घृतेनोपस्तीर्य पायसादिभोज्यद्रव्यं पात्रेषु परिविष्य पात्रस्थमन्नं सावित्र्या प्रतिपात्रमावृत्तया प्रोक्ष्य प्रतिपात्रसमीपे प्राङ्मुख उदङ्मुखो वोपविश्य सव्यहस्तेन पाबमालभ्य दक्षिणहस्ते कुशयवजलान्यादाय ॐ केशवरूपगुरो इदमन्नं सोपस्करं यत्परिविष्टं परिवेक्ष्यमाणं तृप्तिक्षमममृतस्वरूपं ते स्वाहा' इति भूमौ जलमुत्सृजेत् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy