SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आतुरसंन्यासप्रयोगः। १०३ इत्यादिवाक्यै रोगाद्यातुरस्य पुरुषसूक्तहोमविरजाहोमोपवासजागरणाद्यङ्गकलापरहित: संन्यासो भवति । तत्रायं प्रयोगः अङ्गिरसोक्तप्रकारेण प्रदर्श्यते । तत्र प्रक्षालितपाणिपादः शुद्धवस्त्रे सन्धार्य मन्त्रस्नानं कृत्वाऽऽचम्य प्राणानायम्य हस्ते कुशादिकमादाय देशकालौ सङ्कीर्त्यामुकशर्माऽहं मम करिष्यमाणसंन्यासेऽधिकारसिद्धयर्थं चतुष्कृच्छात्मकवतप्रत्याम्नायगोचतुष्टयनिक्रयद्रव्यं रजतं चन्द्रदैवतं विप्रेभ्यो विप्राय वा दातुमहमुत्सृजे इति सङ्कल्प्य दद्यात् । पुनः कुशादिकमादाय देशकालकीर्तनान्ते मम निरतिशयानन्दावा· तये परमहंसाश्रमाधिकारसिद्धयर्थमातुरविधिना संन्यासमहं करिष्ये इति सङ्कल्प्य ब्राह्मणानुज्ञया शिखाया: पञ्च सप्त वा केशानवशेष्य वपनं कृत्वा स्नात्वा सन्ध्यादिकर्म यथासम्भवं सम्पाद्य जलसमीपं गत्वा पात्रे अप उद्धृत्य तस्मात् हस्ते जलमादाय अप्सु जुहोति । जलाशयसन्निध्यभावे पात्रान्तरे जलं धारयित्वा हस्ते जलमादाय तत्र जुहोति ॐ एष वाज्नेयोनिर्यः पाणः प्राणं गच्छ स्वां योनि गच्छ स्वाहा” इति प्रथमाहुति हुत्वा____ॐ आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहा" इति द्वितीयाहुति हुत्वा पात्रस्थं हुतशेषं जलम् “आशुः शिशान" इत्यनुवाकेन “जयन्तं त्वाऽनु देवा मदन्तु" इत्यन्तेनाभिमन्य... "ॐ पुत्रैषणावित्तषणालोकैषणा मया त्यक्ताः स्वाहा" इत्यभिमन्त्रितोदकं हस्तेन किञ्चिदादाय प्रथमं पीत्वा ॐ अभयं सर्वभूतेभ्यो मत्तःः स्वाहा" इति द्वितीयवारं किञ्चित्पीत्वा "ॐ संन्यस्त्वं मया स्वाहा" इति तृतीयवार निःशेषं पिबेत् । ततो. गायत्रीं व्याहृतिषु प्रवेश्य व्याहृती: प्रणवे प्रवेशयेत् । तद्यथाॐ सावित्रीं प्रविशामि तत्स० ण्यम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy