SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ ७९२ हंसो मयूरवर्यश्च सुमनोहरपक्षकः । शुभनेत्रादिसंयुक्तो मुखस्थदलपत्रकः ॥ ९॥ उत्तिष्ठन् वा शयानो वा देवपीठसमन्वितः । पुष्पवन्मण्डलं नानामरीचिपटलान्वितः !' १० ॥ तुरङ्गैरन्वितं वापि रहितं वा प्रकल्पयेत् । अथ हंसमयूरवाहनयोलमणमाह --- हंस इत्यादिना । सप्राणस्य हंसस्य मयूरम्य च शुभगरुयुगलं पिंछादिकश्च यथा वा दृश्यते तथैवास्यापि वाहनस्य गरुलिंछादिकं मेलयित्वा तस्य मयूरस्य हंसस्य वा आननभागे कमलदलपत्रादिकं वा पन्नगादिकं वा योजनीयमिति तत्कल्पनक्रमः ।। किश्चैतादृशलक्षणोपेतं हंसवाहनं, मयूरवाहनं वा पूर्ववदुत्थान स्वरूपं वा, निष्ठद्वोड्डीनशैलीयुतं वा शयानं वा स्थापनीयम् । अपि चैतादृशलक्षणोपेतस्य हंसस्य मयूरस्य च स्कन्धानन्तरतले पूर्ववद्देवबेरपीठादिकञ्च कल्प्यमित्यर्थः ॥ अथ सूर्यप्रभाचन्द्रप्रभाख्ययोर्वाहनयोर्टक्षणमाह -पुष्पवदित्यादिना । 'एकयोक्त्या पुष्पवन्तो दिवाकरनिशाकरौ' इति निघण्टुकारवचनेनाल पुष्पवत्पदप्रयोगस्तावत्सूर्यप्रभावाहनचन्द्रप्रभावाहनद्योतक इति साधवः ।। इदन्तु सूर्यप्रभाषानं चन्द्रप्रभावाहनश्च तिष्ठश्चक्राकार
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy