SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ आधारसूत्रसंयुक्तं बीजाक्षरयुतन्तथा । श्लक्ष्णितं टङ्कवेशेन मेलयेत्तु दिने बुधः ॥१०॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सकलविधदेवपीठलक्षणकथनं नाम अष्टसप्ततितमोऽध्यायः ॥ किमर्थम् ? अनेन रन्ध्रेण पूर्वोक्तेनोलकर्णेन च रज्जु प्रवेशयित्वा गजतुरगादिवाहनमस्तको परितले बेराणां दृढं स्थापनार्थमिति क्रमः । तस्मादनेन लक्षणेनोपेतेषु आसनेषु वासुदेवमाधव. नारायणरङ्गनाथादिविष्णुबेराणि चतुरश्रपीठे वा दीर्घाकारपीठे वा योजयेत किश्वेष्वेव चतुरश्रदीर्घाकारपीठेषु मुख्यानां शिवबेराणां स्थापनं युक्तम् । कचिदेवेवासनेषु देवीनां बेराणीति नवीनाश्शिल्पविदः । अथापि प्राचामाशयस्तु षडाष्टा श्रद्वादशाश्रषोडशाश्राख्यासनेषु सुदर्शनशङ्खशूलाद्यायुधानां कालीकरालीभैरवीग्रामदेवीचण्डिकालक्ष्म्यादिसकलदेवीबेराणां सप्तमातृकाबेराणां च स्थापनं युक्तं क्षेमकरमिति ।। एवं कल्पनीयमिदमासनजालं बेरयोजनात्पूर्वमेव तत्तदेवतामातृकाबीजाश्चररेखायन्त्रनवरत्नादिविन्यासपूर्वक मनोहरं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy