SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ जन्म पद्मं कपोतं वा पञ्जरं रेखिका क्रमात् । क्षुद्रोपपीठमानेन योजयेत्पीठमासनम् ॥ ८॥ प्रणाली संयुतं वापि कोणरन्ध्रसमन्वितम् । ऊर्ध्वकर्ण समायुक्तं वज्रलेपेन वन्धितम् ॥ ९॥ अपि च विष्णोर्वा शिवस्योत्सवबेराणामधोभागे स्थापनीय मासनन्तु पूर्वोक्तरीत्या वसलेप संयोजनश्लक्ष्णीकरणादिना च तद्वेरनिर्माणेन संयुक्तं प्रकल्पयित्वा तेषामासनानां नानाविधानामपि सव्यापसव्यभागयोरूर्वकर्णाख्यं षडङ्गुलौनत्यवत्कीलयोजनं निर्मापयेत् । किमर्थम् ? तेषामुत्सवबेराणां हंसगरुडमयूरादि वाहनारोपणकाले तेषां बेराणां वाहनमस्तकस्थितकीलानाश्च दुकूलरज्ज्वादिभिस्सम्यग्बन्धनार्थमिति प्रयोजनश्च बोध्यम ।। किम्चात्र पीठनिर्माणे कोऽपि नियमः स्वीकार्यः । यथा - लोहनिर्मितोत्मबबेराणामधोभागे लोहकतमेवासनपीठयोजनम , कचिद्दारुकृतोत्सवबेराणामधोभागे लोहकृतमासनपीठ. योजनं शस्तं भवति । शिलानिर्मितानां मूलबेराणामधोभागे शिलामयासनमेव युक्तं स्थापयितुम् । कचित्तेषां शिलाकृतमूलबेराणामधोभागे दृढघनेष्टिकासुधाकृतासनमपि युज्यत एवेति । एवं दारुनिर्मितोत्सवबेराणां दारुमयमेवासनकल्पन
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy