SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ७२४ ४. गन्धर्वकान्तशतस्तम्भमण्टपलक्षणम् चतुर्थो गन्धर्वकान्तश्चतुष्कोणे चतुःक्रमम् ।। २५ ।। स्तम्भषोडशकं स्थाप्यं तदन्तश्च यथामतम् । पूर्व पृष्ठ पदोपेत नागपादप्रकल्पनम् ॥ २६ ॥ तत्संख्याकं तदन्तश्च चतुः पङ्क्तिक्रमात्पदम् । तदन्तर्वेदपादन्तु देवस्थानमुदाहृतम् ।। २७ ।। अथ गन्धर्वकान्ताख्यस्य चतुर्थस्य शतस्तम्भमण्डपकल्पनस्य स्तम्भस्थापनक्रममाह चतुर्थ इति । गन्धर्वकान्तस्यास्य मण्डपकल्पनस्य मध्यतलमतिविशालं कार्यम् । तस्मादस्य मध्यतलस्यामेयादिकोणचतुष्कस्थलेषु स्तम्भचतुष्कसहितं पक्तिद्वयं विरचय्य दीर्घाकाररेखायां तिर्यग्रूपस्थाने सव्यापसव्यभागयोः स्तम्भाष्टकयुतं पक्तिचतुष्के स्थापिते सति चतुष्षष्टिस्तम्भा भवन्ति । किञ्चैतेषां स्तम्भानां मध्यभागे वैशाल्यरेखायां स्तम्भाष्टकयुतं पङ्क्तिचतुष्के विरचिते सति तदाहत्य संख्यायां षण्णवतिस्तम्भा भवन्ति । पूर्वोक्तरीत्या मध्यभागे दैवभागतले क्षुद्रमण्डपकल्पनार्थं स्तम्भचतुष्के स्थापिते कल्पनं अविकलं भवेदिति लक्षणवाक्यार्थः ॥ -- कल्पनस्यास्योद्धारमण्डलं यथा - अथ चतुर्थस्य गन्धर्व कान्ताख्यस्य शतस्तम्भमण्डपस्य स्तम्भस्थापनक्रमः Mancom
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy