SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ ६९० (५) अथ पञ्चमस्य वनभवनस्य लक्षणम् ॥ महाङ्गणचतुष्केण चतुर्दारेण मण्डितम् । अन्तस्सालद्वयं वापि सालनयमथापि वा ॥ १७ ॥ नानाभवनकोपेतमेकद्वित्रितलान्वितम् । तदन्तरुन्नतं कल्पं कल्पयेद्रविभूमिकम् ॥ १८ ॥ अथ पञ्चमस्य वनभवनस्य लक्षणमाह - महाङ्गणचतुष्कणेत्यादिना । वनभवनस्यास्य निर्माणन्तु चतुरश्रप्रमाणयुतमथवा तत्र तत्र संप्राप्तवास्तुस्थलानुगुणं देयोपेतं वा यथेष्टदण्डमानं प्रकल्पयेत् । तत्रापि कोऽपि नियमः स्वीकार्यः। यथा प्राच्यादिषु चतुर्वपि दिग्भागेषु प्रथमतो महाद्वारचतुष्कसहिता प्राकारभित्ति प्रकल्पयित्वा तदन्तर्भागे क्षुद्रप्राकाराख्यसालद्वयमथवा स्थलवैशाल्यादिवाञ्छायां सत्यां सालवयमङ्गणोपेतं कल्पनं निर्मापयित्वा तदन्तर्भागे एकसौधेन वा सौधद्वयेन वा सौधत्रयेण वा भासुरमङ्गणं कल्पयित्वा तादृशाङ्गणभागे नानाधरणे विविधान्तःकल्पनयुतं नानाकार्योचितं नानाभवनकल्पनं निर्मापयेत् । अयश्च क्रमश्चतुर्वपि दिग्भागेष्विति भावः ।। किञ्चैतादृशाङ्गणतरणानन्तरमेतत्कल्पनेन विहीनं मध्यभागे चतुरनं देयोपेतं वा विवाहशालाद्यनेकशालामण्डितं दृढकल्पनं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy