SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ ६७७ दृढमण्टपकल्पं वा दृढकूटप्रकल्पनम् । दण्डिकाकल्पनं वापि नानामनममन्वितम् ॥ ३ ॥ पथिकादीनां चोरदुष्टसत्वादिभयनिवारण हेतुर्भवति । किञ्च तेषां पथिकादीनां धैर्यप्रदत् । तस्माद्भूपालादिभिरवश्यं मार्गभागेषु प्रतिक्रोशपरिमाणस्थलेषु, अरण्यभागेषु क्वचित्तदधिकमानेषु वा तायोवस्थाननिर्माण कार्यम || तादृशस्थानेषु क्वचित्समीपे वाऽध्वगमनादिना श्रान्तपथिकविश्रान्तिस्थानाख्यं मण्टपरूपकल्पनं, अथवा मध्यभागे समुचितप्रमाणं चत्वरस्थलं प्रकल्पयित्वा तत्स्थलं परितोऽङ्गणकल्पनत्रशात्कूटकल्पनाख्यनिर्माण कार्यम् । अथवा क्वचिद्ग्रामान्तरगामिषु क्षुद्रमार्गमध्यभागादिस्थलेषु दण्डिकाकल्पनाख्यमतिदैर्ध्य देकाङ्गणं वा निर्मापणीयम् । एवंविधेष्वेतादृशकल्पनेषु सर्वत्र श्रान्तानां पथिकादीनां श्रमापनोदनक्षमान्यासनकल्पनानि विविधप्रमाणानि कचित प्रकल्पयेत् । तथा स्थलान्तरे तेषां तात्कालिकपाकादिनिर्माणार्हस्थलं सचुल्लीकं सौकर्यदायीनि कल्पनान्तराणि च निर्मापयेदित्युपदेशः || किन पूर्वोक्तेषु मण्टपकूटादिविश्रान्तिस्थानेषु मध्यचत्वराङ्गणसमीपस्थ कुड्या दिस्थानेषु दर्शनीयेषु तेषां पथिकादीनामुल्लासजनकानि देवगन्धर्व नलनहुषादिभूपालादीनां चित्रकल्पनानि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy