SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६७१ प्रतोली मानगणनाद्विगुणं त्रिगुणं तु वा । कुल्या सेतुयुतं वापि महासेतुयुतं कचित् ॥ ४ ॥ पक्षयोरसलिलस्रावो वनकल्पन मेदुर: । " किञ्च सानुपुरं = पर्वतसानुभागनिर्मितनगरं तस्य द्वार - माशाल्यादिकं तु नगर मार्गवैशाल्यसम्मानं वा तादृशसानुतटवैशाल्याद्यनुगुणमानं वा योजनीयमिति प्राचां व्यवहारः । शास्त्रकारस्याशयस्तु प्रामत्रीध्यादिषु यद्वैशाल्यं तद्दूिगुणितमानं वा त्रिगुणितमानं वा ग्रामद्वारमार्गादिषु योज्यम् । एवंरीत्या पद्मकादिनगरवीथीषु शाल्यं कृतं द्विगुणितमानं वा तत्त्रिगुणित वैशाल्यं वा नगरमार्गस्य नेयमिति क्रमः ॥ किन पूर्वप्रतिपादितरीत्या वीथी मार्गलक्षणकथनप्रतिपादितरीत्या ग्राममार्ग नगर मार्गराजवानीमार्ग महामार्गादिषु एतन्माननयनमपि सतां सम्मतमिति मतभेदेन प्रमाणमुक्तं बोध्यम 'प्रतोली मानगणनाद्विगुणं त्रिगुणं तु वा' इति ॥ www किर्खेत । दृशवैशाल्य सहितस्य देशान्तरनगरान्तरगमनयोग्यस्थ मार्गस्य मध्यभागे स्थलान्तरे वा जलाशयकुल्यादीनां तिर्यग्गमने ताराकुल्यादिमानानुगुणं विधाय तत्र बनकल्पन सेतुस्थापनं कारयित्वा तत्सेतोरुपरि तादृशमार्गप्रसार प्रसारयेदित्यर्थः । किवंरीत्या कचित्तादृशमार्गमध्यभागे नदी महानदीहदादीनां 9
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy