SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ मूले मध्ये मौलिभागे पट्ट या योजयेत्क्रमात ॥१०॥ पिण्डिताय कराग्रं वा तक्षयेद्वा क्वचित्स्थले । कमलं रेखिकां कर्णनालं मध्यतलं तथा ॥ ११ ॥ व्रतेरुपरि पद्मश्च चित्रखण्डं कपोतिकम् । गजवाजनमुख्यश्च यथामानं प्रकल्पयेत् ॥ १२ ॥ चक्रयाकम्वरूपं वा सरूपमथापि वा । शारिकाशुकरूपं वा नानादेवस्वरूपकम् ।। १३ ॥ चित्रतोरणरूपं वा लताकुसुमरूपकम् । व्यालेभसिममकरगजाश्वादिस्वरूपकम् ॥ १४ ॥ भागेषु पट्टिकाभागेष्वन्यद्यच्च मनोहरम् । कल्पनं तत्प्रकर्तव्यं नानाटङ्कक्रियावटैः ॥ १५ ॥ प्रान्तरेखासमायुक्तं चित्रपट्टयुतं क्वचित् । चाङ्गेषु कमलं रेखिकां मध्यनालं कचिच्छैल्यन्तरेषु एकहस्तोन्नतिकप्रमाणं वा तन्न्यूनं कचित्तदधिकप्रमाणं वा कचिन्नानाङ्गणविभजनं कारयित्वा, तादृशाङ्गणतलेषु चक्रवाकचित्रं वा हंसीहंसशुकशारिकाचूनलताकुसुमादिचित्रं वा तत्रैव भागान्तरस्थिताङ्गणतलेषु व्यालरूपं वा वारणरूपमथवाऽश्वरूपं कचिन्मीनकुटुम्बरूपं, कचित्तोरणरूपं, कचिन्मनोहरचित्रपट्टिकारूपं नानाटङ्कादिक्षेपणतक्षणवर्धनषशात्करणीयमिति तत्कल्पनक्रमो बोध्यः ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy