SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ६४३ इति द्वादशभेदेन स्तम्भानां कल्पनं मतम् ॥ ७॥ स्तम्भो नन्दिकान्तस्तम्भ इति च नाम भजतीति ।। एवंरूपेण स्तम्भानां सर्वविधनिर्माणस्थापनयोग्यानां द्वादशविधा जातिरुक्ता ज्ञेया । १. देवकान्तस्तम्भः । ७. सुप्रतीकान्तस्तम्भः । २. ब्रह्मकान्तस्तम्भः । ८. सूर्यकान्तस्तम्भः । ३. इन्द्रकान्तस्तम्भः। ९. ब्राह्मणकान्तस्तम्भः । ४. विष्णुकान्तस्तम्भः। १०. कैलासकान्तस्तम्भः । ५. स्कन्दकान्तस्तम्भः । ११. मे रुकान्तम्तम्भः । ६. सोमकान्तस्तम्भः १२ नन्दिकान्तस्तम्भ इति ।। किञ्च काश्यपीयमतमानसारादिशिल्पशास्त्रवास्तुशास्त्रलक्षणशास्त्रग्रन्थेषु प्रतिपादितमतान्तरस्तम्भजात्यादिशैली तु ग्रन्थविस्तरभिया नात्र प्रपन्च्यते । तच्च तत्रैव ज्ञेयमिति युक्तं पश्यामः ॥ तस्मादेवंरीत्याऽत्र प्रतिपादितस्तम्भकल्पनमेव प्रायशो मतान्तरस्तम्भलक्षणद्योतकं भवति । इदमेव देवभूपालमानववारणशालादिनानाविधनिर्माणस्थापनानुकूलमिति च भावः । किंचात्रोक्तद्वादशविधस्तम्भकल्पनशैल्येव पूर्वोक्तपाञ्चाल्यादिसप्तविधकल्पनशैलीद्योतकनिर्माणेषु स्थापनाही भवतीति शिल्प समयः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy