SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ अथ पोतिकालक्षणकथनं नाम एकोनषष्टितमोऽध्यायः ॥ दीपस्थलं पोतिकाख्यं कथितं शास्त्रपारगैः । देवेषु मानवेष्वन्यत्कल्पनेष्वपि भूरिषु ॥ १ ॥ एकोनपष्टितमोऽध्यायः ॥ अथास्मिन्नेकोनषष्टितमेऽध्याये सर्वविधकलरनालङ्कार पोतिकाख्य भूतपतिका निर्माणलक्षणादिकमाह - दीपस्थलं मित्यादिना । पोतिका नाम दीपपात्रम् । लक्षणया क्वचिद्दीपपात्रादिस्थानञ्च निर्दिश्यते । तस्मादेतल्लक्षणमंत्र प्रतिपाद्यत इति समयः । यथा वा देवालयस्थापितेषु नानाविधगोपुरद्वारभागेषु एवं द्वितीयतृतीयादिगोपुरतलभागेषु प्राकारभित्यन्तभागेषु वीथ्यादिस्थानेषु समुचितस्थलेषु विविधमण्ट पांगणभागेषु देवदेव्यादिगर्भगृहद्वारोभयपक्षकेषु कचिदन्तर्गेहकुड्यप्रान्तेषु, तटाकमोपानेषु स्तम्भादिस्थलेषु स्थलान्तरेषु समुचितेषु ब्राह्मणक्षत्रियवैश्यादीनां गृहभवनप्रासादादिनिर्माणेषु सर्वद्वारोभयपक्षकेषु, पूर्वभवनमध्यभागेषु कल्याणशाला भोजनशालाशयनगृहादिभित्र्यन्तभागेषु तत्र तत्र स्थापितस्तम्भ पालीप्रदेशेषु क्वचित्सोपानावलीप्रान्तभागेषु नानालिन्दप्रदेशेषु नवरङ्गकूटादिस्थानेषु द्वितीयभामतृतीयभौमादिविविध निर्माणेषु, स्थलान्तरेष्वपि ,
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy