SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५२४ मध्यसमीपे वा मेलनस्थानकेऽपि वा । राजवीथीमुखान्ते वा शृङ्गाटकतलेऽथवा ॥ २ ॥ कल्पनशब्द स्तावद्भूपालप्रासादस्यावरणस्थलेषु स्थापितकल्पनविशेषद्योतक इति भावः । अनेन मुख्यतो भूपालतन्मद्दिष्यादिभिरुपसेवनदर्शनयोग्याया राजकीयरङ्गशालायाः स्थापनस्थउनिर्देशः कृत इति भावः ॥ - अथ भूपालेतर जनस्सेवनीय पौररङ्गशालायाः स्थापनस्थलं निर्दिशति — पुरमध्यम इत्यादिना । सर्वतोभद्रादिनगरस्य मध्यभागे समुचितस्थले मानवरङ्गशाला निर्मापयेत् । अथवा नगरगर्भस्थानाख्यनगरमध्यभागे कचित्स्थापितस्यालोकनादिमध्यसझन रसमीपे तां रङ्गशाला निर्मापयेन । अथवा तादृशकल्पननिर्माणाद्यभावे नगरेषु राजवीथीनां महाप्रतोलिकादीनां वा यत्र संमेलनं संभवति तत्र स्थले स्थापयेत ॥ किञ्च नगरादेिषु देवप्रासादस्य पुरोभागे स्थापिता, उभयपक्षहर्म्यका वीथी सन्निधिविथीनामभाग्भवति । भूपालप्रासादस्य पुरोभागे स्थापितोभयपक्षहर्म्यका वीथी मुखराजवीथीति व्यवहारः किल । तस्याः मुखराजवीध्या मुखभागे ललाटस्थले वा तामिमां रङ्गशालां स्थापयेन । अथवा कचिन्नगरादिषु शृङ्गाटकस्थलसमीपे स्थापयेत् ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy