SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ हागां सदनानाञ्च गृहाणाश्च विशेषतः ॥ ३ ॥ वक्षःस्थले नाभिदेशे कल्पयेत्तां मनोहराम् । मध्यचत्वरभागाढ्यां पादरङ्गान्वितान्तु वा ॥ ४ ॥ चतुरश्रां व्यासयुतामुपशालावृतस्थलाम् । चतुरङ्गणमङ्कीर्णा मण्डलाकृतिकान्तु वा ॥ ५॥ स्थापयेन्मानविच्छिल्पी यथासूत्रप्रमाणकम् । तादृशशालातरणानन्तरं पूर्वभागकल्पनस्यान्तिमस्थले पूर्वावरणस्यान्तिमस्थले वा स्थापयेत् । कचिद्ग्रामादिषु गृहकल्पनस्य यथासूत्रमानितस्य वक्षःस्थाने वा, कचिन्नाभिस्थाने वा, वान्तुनाथवक्षःस्थलमार्ग विना स्थलान्तरे तामिमां कल्याणशाला नैयत्येन विवाहाद्याचरणार्थ कार्यम् । न तु शयनभोजनसुहृत्सल्लापननाट्यप्रदर्शनाद्याचरणं कार्यमिति प्राचां व्यवहारो ज्ञायते ।। तदेतद्युक्तमव धानक भूपालादिमहाभवनहम्यप्रासादादिषु । क्षुद्रग्रामगृहादिकल्पने तु कल्याणशालायामस्यां पूर्वोक्तरीत्या विविधेषु समयेषु भोजनसुहृत्सल्लापनश्रमापनोदननाट्यप्रदर्शनविवाहाद्याचरणानि न दोषायेति मतिः । नवीनानामयञ्च क्रमोऽर्वाचीनप्रन्यादिपूक्त इत्यलम् ॥ तस्मात्तामिमां विवाहशालां चतुरश्रप्रमाणोपेतां वा, देयभावा कचिन्मण्डलाकारप्रमाणकल्पनाभाजं स्थापयेदित्यस्याः
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy