SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ एकद्वित्रिचतुःपश्चषट्सप्ताष्टनव स्मृताः। देवे च मानवे वास्तुभूभागे शुभदा मताः ॥ ३ ॥ पूर्वभागे पार्श्वयोश्व पश्चादेकैव सा मता। तासां मानश्च विविधं ज्ञेयं शिल्पविशारदैः॥ ४ ॥ कचिदेशविशेषेषु स्थलविशेषेषु वा देहलीभागतरणानन्तरमेकां शालां ततः प्रथमद्वितीयचत्वरभागतरणानन्तरमेकां शालामेवं भोजनकूटस्थाने शालामपराञ्च प्रकल्पयेदिति प्रन्थान्तरवचनप्रतीतिबलात। गृहभवनादौ साधारणशालानामनेकसंख्याकानां निर्माणे कृतेऽपि विशेषतो ब्रह्मभागे वा शुभस्थले तदपेक्षया अधिकप्रमाणवती काचिच्छालाऽवश्यं निर्मापणीया । सैव शुभदा सर्वेषाम । एवं यथाविभवं निर्मिताया अस्याश्शालाया एव महाशालेति व्यवहार इति शिल्पकलाविचक्षणा ॥ तस्मात्पूर्वोक्तरीत्या स्वस्वविभवानुगुणं स्वीकृतवास्तुभूमिके प्राथमिकद्वारस्य पूर्वभागे वाऽऽहोस्वित्सव्यापसव्यभागयोरुभयोर्वा ब्रह्मभागतरणानन्तरं पाश्चात्यभागारम्भस्थले वा इमां महाशाला अतिमनोहरशिल्परचनोपेतां निर्मायास्यां महाशालायां स्वेच्छाधीनं विवाहाचरणं कचित्समये प्रन्थविशेषपठनादिकमन्यस्मिन्समये स्निग्धैरालापनादिकं कुर्वन्कौतूहलभरितस्तच्छालादेवताप्रसादनमपि स्वाकुर्वन् राजत इति शिल्पसमयः । तस्मादेवप्रकारेण
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy