SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ४८६. किश्चैवमत्र प्रतिपादितमुख प्रतिमुख तोला किङ्किणिकादीनां सङ्घकेतनाममाजामङ्गवङ्गादिदेशभेदेन तत्तत्स्थानक्रियायोतकानां पताकाख्यचित्रक्रियाणां प्रमाणकल्पनशैलीनिर्माण सहकार्यायुधभेदादिकं सर्वमपि शिल्पाचार्य परम्परोपदेशादिभिरेव ज्ञातुं शक्यम् ॥ किञ्च शिल्पिभिर्विनाऽन्यैः शास्त्रज्ञैरपि सर्वथा नैतेषां पताकादीनां पारिभद्राख्यलोहकृतिभेदानां च लक्षणादिकं निर्णेतुं शक्यम् । तथापि अस्माभिर्यथामति व्याख्यान धोरणीमप्याश्रित्य कचित् व्याख्यायते । यथा मुखनामकपताकाख्यशिल्परचना तु पूर्वोक्तद्वारपट्टिकादिस्थलेषु अभिमुखसूत्रपातकसं कल्पिता वाजिवारणमशुकशारिकाहरिण के कि गन्धर्वयक्षकिन्नरदेवादीनां मुखसदृक्टङ्कादिशिल्परचनेत्यर्थः ॥ -- क एवं प्रतिमुखनासकपताका तु एतादृशवाजिवारणहंसादिमुखरचना कल्पनं विनैव तत्प्रतिमुखरूपिका । भूतवेतालपिशाचिकावानरभल्लूकादिमुखाख्यप्रतिमुखरचना तु देवालयस्तम्भसोपानवलभीप्रान्तस्तम्भप्रस्तरादिभागेष्वेव स्थापया । सर्वथा न मानवगृहेषु कल्प्येति नियमः || तोलाख्यपताका तु तत्र तत्र स्तम्भादिप्रस्तरभागेषु चतुरश्र - रूपं मध्यस्थकुसुमरचनमन्त्यभागेषु द्वित्रिरेखायुतं कल्पन मित्यर्थः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy