SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४५८ नित्या नैमित्तिका चेति तच्छाला द्विविधा मता । पुरोद्यानान्तिके प्रायो वहिरन्तःस्थलेऽथवा ॥ ५॥ शुभवास्तुतले नित्यां कल्पयेदश्मभिर्दृढाम् । शतदण्डं मध्यतलमथवाधिकमानकम् || ६ || पादितं प्रसिद्धमेव । तस्मात्तेषां हयानां वारणोत्तमानामपि अभ्यर्चनादिना भूपालादीनां महाफलप्राप्तिः सर्वैरपि अभ्युपगतैवेत्याशयः । अत एव भूपालादीनां क्षत्रियाणां राजाङ्गेषु गजतुरंगा एवं प्रधानालङ्कृतिः, अन्यत्तदुपकरणमिति शास्त्रज्ञाः । तस्माद्बहुवोपकारिणां हयादीनां नित्यनिवासशालां सलक्षणं भूपतयः स्थापयेयुरिति फलिनम् ॥ सा च शाला द्विविधा नित्या, नैमित्तिका चेति । बहूनां सततावासस्थानं नित्या शाला | नृपालयभत्रनादिसमीपे कदाचित्समुचितेषु समयेपु आनीय स्थापनस्थानं नैमित्तिकशालेति तदर्थक्रमः । *मेतयोः कलानप्रमाणादिकमाह - पुरोद्यानान्तिक इत्यादिना । पद्मादिनगरसमीपवर्तिनि बाह्यद्याने तत्समीपे वा नगरसीमान्तिकस्थले वा सति स्थलविभवे नगरमध्यस्थळे वा समुचितप्रदेशे निम्नत्योन्नतत्वादिदोषरहितशुभवास्तुभूमौ तामेतां वाजिशालां वारणशाला दृढाश्मभिरतिकल्पनां स्थापयेत् ॥ ― .
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy