SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ अथ मृगशालालचणनिरूपणं नाम सप्तत्रिंशाध्यायः ॥ बालानां बालिकानाञ्च युवतीनां विशेषतः । शुद्धान्तसुन्दरीणाञ्च चित्तहर्षाभिवृद्धये ॥ १ ॥ कल्पनं विविधं कार्य स्थलजात्यादिभेदतः । शुक्रानामपि कीराणां मयूराणामपि क्वचित् ॥ २ ॥ हरिणानाञ्च वत्सानां लाल्यलीलादिनामपि । शाला तु विविधा स्थाप्या लोहदारुसुष्टिकैः ॥ ३ ॥ ॥ सप्तत्रिंशोऽध्यायः ॥ अथ भूपालधनिकादिभवनेषु स्थापनीयाया मृगशालायाः निर्माणप्रकारं वक्तुमादौ तनिर्माणप्रयोजनं व्यनक्ति - बालानाभूपप्रासादहर्म्यभवनाद्युत्तमावासस्थलेषु मित्यादिना 1 वासभाजां राजकुमाराणां धनिककुमाराणाम, एवं बालिकानां कन्यकानामुद्यद्यौवनानां युवतीनामन्यासामन्तःपुरसुन्दरीणां च अथवा मृगादिशालामन्तःपुरसमीपस्थले मनस्समुल्लासाय समुचिते शुभवास्तुभागे प्रकल्पयेदित्यर्थः ॥ तश्च मृगादिशाला कल्पनं तत्तत्स्थलभेदेन तद्वास्तव्यप्राणिजातिभेदेन च विविधमिति पुरातनैर्मुनिभिरुदीरितम् । तथाऽपि शालाकल्पनं त्रिविधमेव प्रसिद्धम । कल्पनान्तरन्तु तत
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy