SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४४८ बाह्याभ्यन्तरशालाढ्यं कैशिकं विजयं तु वा ॥ ११ ॥ शुकनासासमायुक्तं वलभीपटलान्वितम् । सुन्दरं कल्पनं मध्ये तत्पुरो वाऽथ कल्पयेत् ॥ १२ ॥ प्रतीच्यामन्नशालाञ्च क्षत्रासनसमन्वितम् । किचामुं मण्टपं कैशिकजातिमण्टपकल्पन प्रमाणसहितं वा विजयजातिमण्टपप्रमाणयुतं वा सुपार्श्वनासं वलभीपटला द्याच्छादनक्षुद्रविमानशिखरनहितञ्च प्रकल्पयेन | अपि चात्र मण्टपस्य मध्यप्रदेशे पुरोभागे वा क्षुद्रविमानाख्यं देवोत्सवोचितं सुन्दरनिर्माणं सौवर्णरा जत डोलाभासुरं सौवर्णरजत डोलाभासुरं नवरत्नखचितपर्यङ्कं सशृङ्खलच प्रकल्पयेत् ॥ किश्चैतादृशपूर्व मण्डपस्य नातिसमीप एव स्थले बाह्यशालामनेकस्तम्भां विरचय्य तदन्तश्चत्वरतलं प्रकल्प्य तत्परितोऽन्तश्शालाचतुष्कश्च प्रकल्पयेत् । एतत्सर्वमपि निर्माणं पूर्वोक्तगोपुरद्वारप्राकारान्तःस्थल एव तत्र तत्र स्थलानुगुणं यथाविभवं सौवर्णराजतसोपानशिखरपद्मपट्टिकादिभासुरं प्रकल्पयेन इत्यर्थश्च ध्वन्यते । एतादृशनृपभवनदेवालयस्य प्राकारतरणानन्तरं वा तत्प्राकारान्तर्गतायामेव भूम्यां वा क्वचित क्षत्रियामनसमन्वितां राजभिर्व्रतादिविशेषदिवसेषु सेव्यमन्नशाला कल्पनन स्थापयेत् कुत्र ? तादृशलक्षणान्वितस्य नृपदेवालयस्य 1 प्रतीच्या मेव दिशीत्यर्थः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy