SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४४२ खण्डपङ्क्तिः कचित्कार्या तटाकेषु सरस्सु च । मेदिनीपट्टिकोपेता जलं सर्वत्र कल्पयेत् ॥ ८ ॥ मवश्यं करणीयमिति भावः । एवङ्कल्पितानां बृहदाकृतिकानां क्षुद्राणां वा सर्वेषां मण्टपानामुपरिभागे सविमानशिवरप्रकल्पनमेव श्रेयोहेतुरिति शिल्पविदा समयः । एवं तीरमण्टपजलमध्यमण्टप. कल्पनप्रकारः कथित इति बोध्यम । सर्वत्र तटाकतीरभागे नातिदूरे समुचितस्थले आम्रातकपुन्नागपाटल सरलकर्णिकारपनसबिल्वाशोकक्रमुकारग्वधाश्वस्थनारिकेलादिमही रुहान्वर्धयेदित्युपदेशः ॥ ७ ॥ कचित् हृदकुल्याजलाश यसरःप्रमुखेषु स्थलेषु कचित्तटाकेषु च खण्डसोपानमपि न दोषायति मतिः । खण्डसोपानं नाम तस्य सरस्तटाकमहाहदादेश्चतुर्वपि वा दिग्भागेषु द्वयोरेकस्मिन्वा भागे जलसमीपावधिकमेकदण्डादिपञ्चदण्डवैशाल्योपेतं सोपानमार्गकल्पनमिति तद्युतं रचयेदिति स्थलविभवानुकूलविकल्पः । अपि चैतेषु तटाकादिषु एवंरीत्या सोपानकल्पनानन्तरं भूमितलात् रथ्यासलिलादिप्रवेशनिवारणार्थ तटाकोपरि तीरतले एकहस्तन्नित्ययुतं शिलापट्टिकाकल्पनमवश्यं निर्मापयेत् । तत्र तटाकतीरतले तीरवृक्षसमीपे क्षुद्राङ्गणकल्पनमपि कचिद्देशेष्वभिमतं शेयम् ॥ ८॥ एवंरीत्या कल्पितेषु सर्वत्र सोपानमार्गेषु शोभार्थ
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy