SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ अथ तटाकलक्षणकथनं नाम चतुस्त्रिंशोऽध्यायः ॥ तटाककल्पनाच्छ्रेयः प्राणिनां च सुखं मतम् । तस्मात्तत्कल्पयेद्धीमान्ग्राममध्ये शुभस्थले || १ || मार्गस्य मध्यभागे च वास्तुभूमौ विशेषतः । सततं स्वादुसलिलस्रावो यत्र च दृश्यते ॥ २ ॥ ॥ चतुस्त्रिंशोऽध्यायः ॥ अथास्मिंश्चतुस्त्रिंशाध्याये तटाकनिर्माणप्रकारं प्रतिपादयितुमादौ तन्निर्माणफलं व्यनक्ति- तटाककल्पनाच्छ्रेय इत्यादिना । तत्र तत्र ग्राममध्यस्थलादौ तटाकादिनिर्माणेन पुंसां ऐहिकशुभफलप्राप्तिः आमुष्मिक सद्गतिश्चेत्यादिपुराणकारपठितफलश्रुत्या जगति तत्र तत्र हरिणगोमहिषमानवादीनां प्राणिनां बहुधोपकारसम्पादयित्रीं तटाकनिर्मिति ग्राममध्यस्थले समुचितप्रदेशेऽन्यत्र वा महामार्गसमीपे नगरादिषु च बहुशस्समुचितप्रदेशे महावीथ्यप्रभागे देवालयस्यान्त बहिः प्रदेशे तत्तद्वास्तु वास्तव्यजनहितकारिणि स्थळे समुचिते मठमण्टपाराम निष्कुटादिस्थलेषु च स्थापयेदिति शास्त्रकारोपदेशः || तत्र च को नियम यथा— यस्मिन्स्थले वास्तुभूगर्भमहिना सर्वर्तुसमयेष्वपि अविच्छिन्नमधुरजलप्रसार स्तस्मिन्स्थले
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy