SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४०० समरूपं सप्रमाणं युक्त्या तत्र प्रकल्पयेत् । रूपं, रेखारूपं, कचिश्वानन्दकर चित्ररूपं लक्षणं तक्षकः प्रकल्पयेदिति क्रमः । एवमुक्तं सकलविधचित्रतक्षणं तु तासु तासु शुकादिव्यक्तिषु यद्यत्स्वरूपं करादिरेखाप्रमाणादि वर्तते, तैस्सर्वैरपि सहितं तक्षणीयमिति भावः । अङ्गवैकल्ययुतचित्रस्थापने महादोषप्रसक्तेरिति भावः । एवमत्र द्वारेषु द्वितीयादिभोगेषु विविधचित्रकरणमपि शस्तमेव । अपि चैवं चित्रकरणे दारुमयद्वारेषु दारुमयमेव चित्रतक्षणं सुधेष्टिकामयद्वारेषु तन्मयमवेति तत्क्रमश्च ज्ञेयः || , सति बहुविभवे तादृशद्वार चित्ररूप शुक हंस कुमुदाकरादिस्थानेषु सुवर्णपट्टे वा राजतपट्टे वा नवरत्नमयं रचनाजालं योजयेत् । देवालयद्वाराणामधः स्थिततिर्यविछलासु सौवर्णराजतपट्टकल्पनमवश्यं कार्यम् । राजभवनेष्वप्येवमेवेति नियमः । मानुषगेहेषु सति विभव इति क्रमः ॥ किन तादृशनयनानन्दतक्षणं तु प्राथमिकद्वार कल्याणशालादि मुख्यद्वारस्थान एव कार्यम् । न हि सर्वत्र करणीयमिति नियमः । तथापि यथाशक्ति पूर्वोक्तकुमुदादिकं वा स्थापयेदिति क्रमः ॥ २१ ॥ किश् ता दृश सकलद्धाराणामपि सममृजुसूत्रं द्विद्विकबाट
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy