SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आर्ष तु मेवाजनकं मौमशालासु कल्पयेत् ॥ १४ ॥ एवं द्वादशधा प्रोक्तं तत्तचिद्वैर्विनिर्णयेत् । अन्यानि पद्ममुख्यानि तत्र तत्र प्रकल्पयेत् ॥ १५ ॥ धान्यागारे वस्त्रहेऽलङ्कारस्थान के तथा । स्नानागारे नृत्तशालास्वपि सङ्गीतकादिषु ।। १६ ।। तद्व्यासन्तु त्रिहस्तं तन्मानोन्नतियुतं दृढम् । तक्षकैः कल्पयेत्या सारदारुमुखैश्शुभम् || २७ ॥ एवं चन्द्ररूपसहित मेकादशं चान्द्रद्वारं तु पुष्ट्यारोग्या नन्दादि श्रेयोजनकत्वात्तदिदं मठमण्टपादिषु विश्रान्तिस्थले, अन्तरशालासु वापीकूपादिस्नानघट्टस्थलेषु मिथस्सलपनशालादिषु च कल्पयेदिति समयज्ञाः । नारदवसिष्ठात्रि पराशरव्यासवाल्मीकादिमुनीन्द्ररूप सहित मार्षाख्यं द्वादशद्वारं तु पूर्वोक्तविद्याशालासु उपरिभमेषु आमन्त्रणादिशालासु, आस्थानशालासु राज्यकार्यामन्त्रणसभादिपु च प्रकल्पितं चेत् तदिदमार्षद्वारं तत्रत्यानां नितरां मेघाप्रसादनादिश्रेयोजनकमिति भावः ॥ एवं मुख्यानां द्वादशविधद्वाराणां स्थानतदधिनेत्रादिलक्षणं प्रतिपादितं ज्ञेयम् । पद्मकप्रमुखानि द्वारान्तराणि तु धान्यागारे, वस्त्रागारे, अलकृतिस्थाने, स्नानागारे, नृत्तशाला सङ्गीतशालादिषु स्थापयेदिति तत्क्रमः ॥ १६ ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy